संस्कृत-शब्दकोशः

महाधातु महानट

महाध्वनिक

शब्दकल्पद्रुमः

महाध्वनिकः || पुं, (अध्वनि गच्छतीति । अध्वन् + ठक् । महांश्चासौ आध्वनिकश्चेति ।)
पुण्यार्थं हिमालयावधिकमहापथगमनेन सम्पादित- मरणः । यथा, “भृग्वग्निजलसंग्रामदेशान्तरस्थ- संन्यासानशनाशनिमहाध्वनिकानामुदकक्रिया कार्य्या सद्यःशौचं भवतीति ।” इति शुद्धितत्त्व- धृतसुमन्तुसूत्रम् ॥



Correction: