शब्दकल्पद्रुमः
महानटः || पुं, (महांश्चासौ नटो नर्त्तकश्चेति । उद्धतनर्त्तकत्वादस्य तथात्वम् ।) शिवः । इति त्रिकाण्डशेषः ॥