संस्कृत-शब्दकोशः

महानन्द महानन्दि

महानन्दा

शब्दकल्पद्रुमः

महानन्दा || स्त्री (महानानन्दोऽस्याः ।)
सुरा । इति राजनिर्घण्टः ॥ माघशुक्ला नवमी । यथा, भविष्ये । “माघमासस्य या शुक्ला नवमी लोकपूजिता । महानन्देति सा प्रोक्ता सदानन्दकरी नृणाम् ॥ स्नानं दानं जपो होमो देवार्च्चनमुपोषणम् । सर्व्वं तदक्षयं प्रोक्तं यदस्यां क्रियते नरैः ॥” इति तिथ्यादितत्त्वम् ॥ नदीविशेषः । सा पद्माया विनिःसृता राम- पुराख्याग्रामात् पश्चिमत उत्तरदिग्गता ॥ (दक्षिणदेशीयो नदीभेदः । यथा, महाभारते । १३ । २५ । ४३ । “पुनरावर्त्तनन्दाञ्च महानन्दाञ्च सेव्य वै । नन्दने सेव्यते दान्तस्त्वप्सरोभिरहिंसकः ॥”)



Correction: