संस्कृत-शब्दकोशः

महानीली महान्

महानुभाव

वाचस्पत्यम्

महानुभाव ||‍ पु० महाननुभाव आशयो यस्य । महाशये शब्दर० ।


शब्दकल्पद्रुमः

महानुभावः || त्रि (महाननुभावो माहात्म्य- मस्य ।)
महाशयः । यथा, —
“सुकृती पुण्यवान् धन्यो धर्म्मी च धर्म्मवानपि । महाशयो महेच्छः स्यान्महानुभाव इत्यपि ॥” इति शब्दरत्नावली ॥ (महात्मा । यथा, शिशुपालवधे । १ । १७ । “ग्रहीतुमार्य्यान् परिचर्य्यया मुहु- र्महानुभावा हि नितान्तमर्थिनः ॥”)



Correction: