संस्कृत-शब्दकोशः

महानुभाव महान्त

महान्

शब्दकल्पद्रुमः

महान् || पुं, (मह्यते सेव्यते आश्रीयते गमना- येति । मह् + अतिः ।)
उष्ट्रः । इति राज- निर्घण्टः ॥ दुर्गा । यथा, —
“महान् व्याप्य स्थिता सर्व्वं महा वा प्रकृति- र्म्मता । स्मृतिः संस्मरणाद्देवी नियती च नियामता ॥” इति देवीपुराणे ४५ अध्यायः ॥ महत्तत्त्वम् । यथा —
“सविकारात् प्रधानात्तु महत्तत्त्वं प्रजायते । महानिति यतः ख्यातिर्लोकानां जायते सदा ॥” इति मात्स्ये ३ अध्यायः ॥ (महादेवः । यथा, महाभारते । १३ । १७ । ४२ । “अशनी शतघ्नी खड्गी पट्टिशी चायुधी महान् ॥”)
महच्छब्दप्रयोगनिषेधो यथा, —
“शङ्खे तैले तथा मांसे वैद्ये ज्यौतिषिके द्बिजे । यात्रायां पथि निद्रायां महच्छब्दो न दीयते ॥” इति भट्टिप्रथमसर्गीयचतुर्थश्लोकटीकायां भरतः ॥



Correction: