संस्कृत-शब्दकोशः

महान्त महापञ्चमूलक

महापञ्चमूल

शब्दकल्पद्रुमः

महापञ्चमूलं || क्ली (पञ्चानां विल्वादिमूलानां समाहारः । ततः महच्च तत् पञ्चमूलञ्चेति ।)
बृहत् पञ्चमूलम् । तद्यथा, —
“विल्वोऽग्निमन्थः श्योनाकः काश्मर्य्यः पाटला तथा । सर्व्वैस्तु मिलितैरेतैः स्यान्महापञ्चमूलकम् ॥” इति राजनिर्घण्टः ॥ (यथा, सुश्रुते चिकित्सितस्थाने २० अध्याये । “विनिर्गमार्थं वायोश्च स्वेदयेच्च मुहुर्मुहुः । क्षीरं महापञ्चमूलं मूषिकां चान्त्रवर्ज्जिताम् ॥”)



Correction: