संस्कृत-शब्दकोशः

महापातक महापाप

महापातकिन्

शब्दकल्पद्रुमः

महापातकी || [न्] त्रि, (महापातकमस्त्य- स्येति । महापातक + इनिः ।)
पञ्चप्रकार- महापातकयुक्तः । स च पतितः । यथा, —
“महापातकिनो ये च पतितास्ते प्रकीर्त्तिताः । पतितानां न दाहः स्यान्नान्त्येष्टिर्नास्थिसञ्चयः ॥ न चाश्रुपातः पिण्डो वा कार्य्यं श्राद्धादिकं क्वचित् । एतानि पतितानान्तु यः करोति विमोहितः ॥ तप्तकृच्छ्रद्वयेनैव तस्य शुद्धिर्न चान्यथा ॥” इति शुद्धितत्त्वधृतविष्णुपुराणवचनम् ॥ पारिभाषिकमहापातकी यथा, —
“कृतप्राणप्रतिष्ठाञ्च नीचैर्यां प्रतिमां द्विज ! । दुर्गां न प्रणमेद्यस्तु स महापातकी स्मृतः ॥” इति देवीपुराणे व्यासनारदसंवादः ॥ अपि च । “पितरं मातरं भार्य्यां गुरुपत्नीं गुरुं परम् । यो न पुष्णाति कापट्यात् स महापातकी शिव ! ॥” इति ब्रह्मवैवर्त्ते गणपतिखण्डे ४४ अध्यायः ॥ (यथा च महानिर्व्वाणतन्त्रे । ३ । ९२ । “जातिभेदो न कर्त्तव्यः प्रसादे परमात्मनः । योऽशुद्धबुद्धिं कुरुते स महापातकी भवेत् ॥”)



Correction: