शब्दकल्पद्रुमः
महापापं || क्ली (महच्च तत् पापञ्चेति ।) महा- पातकम् । यथा, — “महापापेषु सर्व्वं स्यात् तदर्द्धन्तूपपातके । दद्यात् पापेषु षष्ठांशं ज्ञात्वा व्याधिबलाबलम् ॥” इति मलमासतत्त्वम् ॥