संस्कृत-शब्दकोशः

महाप्रलय महाप्रस्थानगमनं

महाप्रसाद

शब्दकल्पद्रुमः

महाप्रसादः || पुं, (महांश्चासौ प्रसादश्चेति ।)
विष्णुनैवेद्यादिः । यथा, —
“पादोदकञ्च निर्म्माल्यं नैवेद्यञ्च विशेषतः । महाप्रसाद इत्युक्त्वा ग्राह्यं विष्णोः प्रयत्नतः ॥” इत्येकादशीतत्त्वधृतमत्स्यसूक्तवचनम् ॥ श्रीजगन्नाथस्य महाप्रसादमाहात्म्यं जगन्नाथ- शब्दे द्रष्टव्यम् ॥ अतिशयप्रसन्नता च ॥ (महान् प्रसादोऽस्य । शिवः । यथा, महाभारते । १३ । १७ । १३६ । “महाप्रसादो दमनः शत्रुहा श्वेतपिङ्गलः ॥”)



Correction: