संस्कृत-शब्दकोशः

महाप्रसाद महाप्राण

महाप्रस्थानगमनं

शब्दकल्पद्रुमः

महाप्रस्थानगमनं || क्ली (प्रस्थीयते अस्मिन्निति । प्र + स्था + ल्युट् । महत् प्रस्थानं महापथः । तत्र गमनम् ।)
महापथगमनम् । तत्तु मरणो- द्देशेन हिमालयपर्य्यन्तप्रयाणम् । तच्च कलौ निषिद्धम् । यथा, बृहन्नारदीये । “समुद्रयात्रास्वीकारः कमण्डलुविधारणम् । द्विजानामसवर्णासु कन्यासूपयमस्तथा ॥ देवरेण सुतोत्पत्तिर्म्मधुपर्के पशोर्व्वधः । मांसादनं तथा श्राद्धे वानप्रस्थाश्रमन्तथा ॥ दत्तायाश्चैव कन्यायाः पुनर्द्दानं वरस्य च । दीर्घकालं ब्रह्मचर्य्यं नरमेधाश्वमेधकौ ॥ महाप्रस्थानगमनं गोमेधञ्च तथा मखम् । इमान् धर्म्मान् कलियुगे वर्ज्यानाहुर्म्मनी- षिणः ॥” इत्युद्वाहतत्त्वम् ॥



Correction: