शब्दकल्पद्रुमः
महाबला || स्त्री (महद्बलमस्याः ।)
बलाभेदः । पीतवाट्यालकः । तत्पर्य्यायः । ऋष्यप्रोक्ता २ अतिबला ३ पीतपुष्पी ४ । इति रत्नमाला ॥ (अस्याः पर्य्यायो यथा, —
“वाट्या वाट्यालिका वाट्या सैव वाट्यालकापिच । महाबला पीतपुष्पा सहदेवी च सा स्मृता ॥” इति भावप्रकाशस्य पूर्ब्बस्वण्डे प्रथगे भागे ॥)
(तथास्या गुणाः । “हरेन्महाबला कृच्छ्रं भवेद्वातानुलोमनी ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)