वाचस्पत्यम्
महाभारत || पु० न० “चत्वारश्चैकतो वेदा भारतञ्चैवमेकतः । पुरा किल सुरैः सर्वैः समस्य तुलया धृतम् । चतुर्भ्यः सरहस्येभ्यो वेदेभ्योऽभ्यधिकं यदा । तदा प्रभृति लोकेऽस्मिन् महाभारतमुच्यते । महत्त्वात् भारत- त्वाच्च महाभारतमुच्यते” इत्युक्तलक्षणे व्यासप्रणीते लक्षश्लोकात्मके ग्रन्थभेदे भारतशब्दे दृश्यम् ।
शब्दकल्पद्रुमः
महाभारतं || क्ली (महत् भारतम् । यद्वा, महान्तं भारं तनोतीति । महाभार + तन् + डः ।)
व्यासप्रणीतेतिहासशास्त्रम् । तन्नामकारणं यथा, —
“एकतश्चतुरो वेदा भारतञ्चैतदेकतः । पुरा किल सुरैः सर्व्वैः समस्य तुलया धृतम् ॥ चतुर्भ्यः सरहस्येभ्यो वेदेभ्योऽभ्यधिकं यदा । तदाप्रभृति लोर्कऽस्मिन् महाभारतमुच्यते ॥ महत्त्वाद्भारतत्वाच्च महाभारतमुच्यते ॥” इति महाभारते आदिपर्व्व ॥ * ॥
लोकविशेषेषु तस्य श्लोकसंख्या वाचकाश्च यथा, “षष्टिं शतसहस्राणि चकारान्यां स संहिताम् । त्रिंशच्छतसहस्रञ्च देवलोके प्रतिष्ठितम् ॥ पित्रे पञ्चदश प्रोक्तं रक्षोयक्षे चतुर्द्दश । एकं शतसहस्रन्तु मानुषेषु प्रतिष्ठितम् ॥ नारदोऽश्रावयद्देवानसितो देवलः पितॄन् । गन्धर्व्वयक्षरक्षांसि श्रावयामास वै शुकः ॥ अस्मिंस्तु मानुषे लोके वैशम्पायन उक्तवान् ॥” इति महाभारते १ पर्व्वणि अनुक्रमणिका- ध्यायः ॥ * ॥
तत्र शतपर्व्वाणि तेष्वष्टादश मुख्यानि यथा, —
“आदिसभाविपिनानि विराट- प्रोद्यमभीष्मगुरूणि च कर्णः । शल्यकसौप्तिकपर्व्व तथा स्त्री- शान्त्यनुशास्तितुरङ्गममेधाः ॥ आश्रममौषलयानिकनाकाः पर्व्वणि पर्व्वणि नाम विशेषाः ॥ इति भारतटीका ॥ * ॥
हरिवंशसहितोनविंशतिपर्व्वणामन्तर्गतशत- पर्व्वविभागस्तेषामध्यायश्लोकसंख्या च यथा, — १ आदिपर्व्वणि १९ पर्व्वाणि २२७ अध्यायाः ८९८४ श्लोकाः ॥ २ सभापर्व्वणि ९ पर्व्वाणि ७८ अध्यायाः २५११ श्लोकाः ॥ ३ आरण्यक- पर्व्वणि १६ पर्व्वाणि २६९ अध्यायाः ११६६४ श्लोकाः ॥ ४ विराटपर्व्वणि ४ पर्व्वाणि ६७ अध्यायाः २०५० श्लोकाः ॥ ५ उद्योगपर्व्वणि ११ पर्व्वाणि १८६ अध्यायाः ६६२८ श्लोकाः ॥ ६ भीष्मपर्व्वणि ५ पर्व्वाणि ११७ अध्यायाः ५८८४ श्लोकाः ॥ ७ द्रोणपर्व्वणि ८ पर्व्वाणि १७० अध्यायाः ९९०९ श्लोकाः ॥ ८ कर्णपर्व्वणि १ पर्व्व ६९ अध्यायाः ४९६४ श्लोकाः ॥ ९ शल्य- पर्व्वणि ४ पर्व्वाणि ५९ अध्यायाः ३२२० श्लोकाः ॥ १० सौप्तिकपर्व्वणि ३ पर्व्वाणि १८ अध्यायाः ८७० श्लोकाः ॥ ११ स्त्रीपर्व्वणि ५ पर्व्वाणि २७ अध्यायाः ७७५ श्लोकाः ॥ १२ शान्तिपर्व्वणि ४ पर्व्वाणि ३३९ अध्यायाः १४७३२ श्लोकाः ॥ १३ अनुशासनपर्व्वणि १ पर्व्व १४६ अध्यायाः ८००० श्लोकाः ॥ १४ अश्वमेध- पर्व्वणि २ पर्व्वणी १०३ अध्यायाः ३३२० श्लोकाः ॥ १५ आश्रमवासपर्व्वणि ३ पर्व्वाणि ४२ अध्यायाः १५०६ श्लोकाः ॥ १६ मौषल- पर्व्वणि १ पर्व्व ८ अध्यायाः ३०० श्लोकाः ॥ १७ महाप्रास्थानिकपर्व्वणि १ पर्व्व ३ अध्यायाः ३२० श्लोकाः ॥ १८ स्वर्गपर्व्वणि १ पर्व्व ५ अध्यायाः २०० श्लोकाः । १९ हरिवंशे आश्चर्य्य- पर्व्वणि १ पर्व्व २४४ अध्यायाः १२००० श्लोकाः ॥ हरिवंशे भविष्यपौष्करप्रादुर्भावे १ पर्व्व ११२ अध्यायाः ३४४८ श्लोकाः ॥ इति महाभारते आदिपर्व्वणि पर्व्वसंग्रहनामकः २ अध्यायः ॥ * ॥
तच्छ्रवणविध्यादि यथा, — जनमेजय उवाच । “भगवन् ! केन विधिना श्रोतव्यं भारतं बुधैः । फलं किं के च देवाश्च पूज्या वै पारणेष्विह ॥ देयं समाप्ते भगवन् ! किञ्च पर्व्वणि पर्व्वणि । वाचकः कीदृशश्चात्र एष्टव्यस्तद् ब्रवीहिमे ॥ * ॥
वैशम्पायन उवाच । शृणु राजन् ! विधिमिमं फलं यच्चापि भार- तात् । श्रुताद्भवति राजेन्द्र ! यत्त्वं मामनुपृच्छसि ॥ दिवि देवा महीपाल ! क्रीडार्थमवनिं गताः । कृत्वा कार्य्यमिदञ्चैव ततश्च दिवमागताः ॥ हन्त यत्ते प्रवक्ष्यामि तच्छृणुष्व समाहितः । ऋषीणां देवतानाञ्च सम्भवं वसुधातले ॥ अत्र रुद्रास्तथा साध्या विश्वेदेवाश्च शाश्वताः । आदित्या अश्विनौ देवौ लोकपाला महर्षयः ॥ गुह्यकाश्च सगन्धर्व्वा नागा विद्याधरास्तथा । सिद्धा धर्म्मः स्वयम्भुश्च मुनिः कात्यायनो वरः ॥ गिरयः सागरा नद्यस्तथैवाप्सरसां गणाः । ग्रहाः संवत्सरश्चैव अयनान्यृतवस्तथा ॥ स्थावरं जङ्गमञ्चैव जगत् सर्व्वं सुरासुरम् । भारते भरतश्रेष्ठ ! एकस्थमिह दृश्यते ॥ तेषां श्रुत्वा प्रतिष्ठानं नामकर्म्मानुकीर्त्तनात् । कृत्वापि पातकं घोरं सद्यो मुच्येत मानवः ॥ * ॥
इति हासमिमं श्रुत्वा यथावदनुपूर्ब्बशः । संयतात्मा शुचिर्भूत्वा पारं गत्वा च भारत ! ॥ तेषां श्राद्धानि देयानि श्रुत्वा भारत ! भारतम् । ब्राह्मणेभ्यो यथाशक्त्या भक्त्या च भरतर्षभ ! ॥ महादानानि देयानि रत्नानि विविधानि च । गावः कांस्योपदोहाश्च कन्याश्चैव स्वलङ्कृताः ॥ सर्व्वकामगुणोपेता यानानि विविधानि च । भवनानि विचित्राणि भूमिर्व्वासांसि काञ्चनम् ॥ वाहनानि च देयानि हया मत्ताश्च वारणाः । शयनं शिविकाश्चैव स्यन्दनाश्च स्वलङ्कृताः ॥ यद्यद्गृहे वरं किञ्चित् यद्यदस्ति महद्बसु । तत्तद्देयं द्विजातिभ्य आत्मा दाराश्च सूनवः ॥ श्रद्धया परया दत्तं क्रमशस्तस्य पारगः । शक्तितः सुमना हृष्टः शुश्रूवुरविकल्पनः ॥ * ॥
सत्यार्ज्जवरतो दान्तः शुचिः शौचसमन्वितः । श्रद्दधानो जितक्रोधो यथा सिध्यति तच्छृणु ॥ शुचिः शीलान्विताचारः शुक्लवासा जितेन्द्रियः । संस्कृतः सर्व्वशास्त्रज्ञः श्रद्दधानोऽनसूयकः ॥ रूपवान् शुभगो दान्तः सत्यवादी जितेन्द्रियः । दानमानगृहीतश्च कार्य्यो भवति वाचकः ॥ अविलम्बमनायस्तमद्रुतं धीरमूर्ज्जितम् । असंसक्ताक्षरपदं रसभावसमन्वितम् ॥ त्रिषष्टिवर्णसंयुक्तमष्टस्थानसमन्वितम् । वाचयेद्बाचकः स्वस्थः स्वासीनः सुसमाहितः ॥ नारायणं नमस्कृत्य नरञ्चैव नरोत्तमम् । देवीं स्वरस्वतीञ्चैव ततो जयमुदीरयेत् ॥ ईदृशाद्वाचकाद्राजन् ! शुत्वा भारत ! भारतम् । नियमस्थः शुचिः श्रोता शृण्वन् स फलमश्नुते ॥ पारणं प्रथमं प्राप्य द्विजान् कामैश्च तर्पयन् । अग्निष्टोमस्य यागस्य फलं वै लभते नरः ॥ अप्सरोगणसङ्कीर्णं विमानं लभते महत् । प्रहृष्टः स तु देवैश्च दिवं याति समाहितः ॥ द्बितीयं पारणं प्राप्य अतिरात्रफलं लभेत् । सर्व्वरत्नमयं दिव्यं विमानमधिरोहति ॥ दिव्यमाल्याम्बरधरो दिव्यगन्धविभूषितः । दिव्याङ्गदधरो नित्यं देवलोके महीयते ॥ तृतीयं पारणं प्राप्य द्वादशाहफलं लभेत् । वसत्यमरङ्काशो वर्षाण्ययुतशो दिवि ॥ चतुर्थे वाजपेयस्य पञ्चमे द्विगुणं फलम् । उदितादित्यसङ्काशं ज्वलन्तमनलोपमम् ॥ विमानं विबुधैः सार्द्धमारुह्य दिवि गच्छति । वर्षायुतानि भवने शक्रस्य दिवि मोदते ॥ षष्ठे द्बिगुणमस्तीह सप्तमे त्रिगुणं फलम् । कैलासशिखराकारं वैदूर्य्यमयवेदिकम् ॥ परिक्षिप्तञ्च बहुधा मणिविद्रुमभूषितम् । विमानं समधिष्ठाय कामगं साप्सरोगणम् ॥ सर्व्वान् लोकान् विचरते द्वितीय इव भास्करः । अष्टमे राजसूयस्य पारणे लभते फलम् ॥ चन्द्रादयनिभं रम्यं विमानमधिरोहति । चन्द्ररश्मिप्रतीकाशैर्हयैर्युक्तं मनोजवैः ॥ सेव्यमानो वरस्त्रीणां चन्द्रात् कान्ततरैर्म्मुखै । मेखलानां निनादेन नूपुराणाञ्च निस्वनैः ॥ अङ्के परमनारीणां सुखसुप्तो विबुध्यते । नवमे क्रतुराजस्य वाजिमेधस्य भारत ! ॥ काञ्चनस्तम्भनिर्यहं वैदूर्य्यकृतवेदिकम् । जाम्बूनदमयैर्द्दिव्यैर्गवाक्षैः सर्व्वतो वृतम् ॥ सेवितं चाप्सरःसङ्घैर्गन्धर्व्वैर्द्दिवि चारिभिः । विमानं समधिष्ठाय श्रिया परमया ज्वलन् ॥ दिव्यमाल्याम्बरधरो दिव्यचन्दनरूषितः । मोदते दैवतैः सार्द्धं दिवि देव इवापरः ॥ दशमं पारणं प्राप्य द्विजातीनभिवन्द्य च । किङ्किणीजालनिर्घोषं पताकाध्वजशोभितम् ॥ वसुदेविकसंकाशं वैदूर्य्यमणितोरणम् । हेमजालपरिक्षिप्तं प्रबालबडभीमुखम् ॥ गन्धर्व्वैर्गीतकुशलैरप्सरोभिश्च शोभितम् । विमानं सुकृतावासं सुखेनैवोपपद्यते ॥ मुकुटेनार्कवर्णेन जाम्बू नदविभूषिणा । दिव्यचन्दनदिग्धाङ्गो दिव्यमाल्यविभूषितः । दिव्यान् लोकान् विचरति दिव्यैर्भोगैः सम- न्वितः । विबुधानां प्रसादेन श्रिया परमया युतः ॥ अथ वर्षगणानेवं स्वर्गलोके महीयते ॥ अथ गन्धर्व्वसहितः सहस्राण्येकविंशतिम् । पुरन्दरपुरे रम्ये शक्रेण सह मोदते ॥ दिव्ययानविमानेषु लोकेषु विविधेषु च । दिव्यनारीगणाकीर्णो निवसत्यमरो यथा ॥ ततः सूर्य्यस्य भवने चन्द्रस्य भवने तथा । शिवस्य भवने राजन् ! विष्णोर्याति सलोक- ताम् ॥ एवमेतन्महाराज ! नात्र कार्य्या विचारणा । श्रद्दधानेन वै भाव्यमेवमाह गुरुर्मम ॥ * ॥
लेखकस्थ तु दातव्यं मनसा यद्यदिच्छति । हस्त्यश्वरथयानानि वाहनञ्च विशेषतः ॥ कटकं कुण्डलञ्चैव ब्रह्मसूत्रं तथापरम् । वस्त्रञ्चैव विचित्रञ्च गन्धञ्चैव विशेषतः । देववत् पूजयेत्तन्तु विष्णुलोकमवाप्नुयात् ॥ * ॥
अतः परं प्रवक्ष्यामि यानि देयानि भारते । वाच्यमाने तु विप्रेभ्यो राजन् ! पर्व्वणि पर्व्वणि ॥ जातिं देशञ्च सत्त्वञ्च माहात्म्यं भरतर्षभ ! । धर्म्मवृत्तिञ्च विज्ञाय क्षत्त्रियाणां नराधिप ! ॥ स्वस्तिवाच्य द्विजानादौ ततः कार्य्ये प्रवर्त्तते । समाप्ते पर्व्वणि ततः स्वशक्त्या पूजयेत् द्बिजान् ॥ आदौ तु वाचकन्तत्र वस्त्रगन्धसमन्वितम् । विधिवद्भोजयेद्राजन् ! मधु पायसमुत्तमम् ॥ ततो मूलफलप्रायं पायसं मधुसर्पिषा । आस्तीके भोजयेद्राजन् ! दद्याच्चैव गुडौदनम् ॥ अपूपैश्चैव पूपैश्च मोदकैश्च समन्वितम् । सभापर्व्वणि राजेन्द्र ! हविष्यं भोजयेद् द्विजान् ॥ आरण्यके मूलफलैस्तर्पयेत्तु द्बिजोत्तमान् । अरणीपर्व्व चासाद्य जलकुम्भान् प्रदापयेत् ॥ तर्पणानि च मुख्यानि रम्यमूलफलानि च ॥ सर्व्वकामगुणोपेतं विप्रेभ्योऽन्नं प्रदापयेत् । विराटपर्व्वणि तथा वासांसि विविधानि च ॥ उद्योगे भरतश्रेष्ठ ! सर्व्वकामगुणान्वितम् । भोजनं भोजयेद्विप्रान् गन्धमाल्यैरलङ्कृतान् ॥ भीष्मपर्व्वणि राजेन्द्र ! दत्त्वा यानमनुत्तमम् । ततः सर्व्वगुणोपेतमन्नं दद्यात् सुसंस्कृतम् ॥ द्रोणपर्व्वणि विप्रेभ्यो भोजनं परमार्च्चितम् । शराश्च देया राजेन्द्र ! चापान्यसिवरास्तथा ॥ कर्णपर्व्वण्यपि तथा भोजनं सार्व्वकामिकम् । विप्रेभ्यः संस्कृतं सम्यक् दद्यात् संयतमानसः ॥ शल्यपर्व्वणि राजेन्द्र ! मोदकैः सगुडौदनैः । अपूपैस्तर्पणैश्चैव सर्व्वमन्नं प्रदापयेत् ॥ गदापर्व्वण्यपि तथा मुद्गमिश्रं प्रदापयेत् ॥ स्त्रीपर्व्वणि तथा रत्नैस्तर्पयेत्तु द्बिजोत्तमान् । घृतौदनं पुरस्ताच्च ऐषीके दापयेत् पुनः ॥ ततः सर्व्वगुणोपेतमन्नं दद्यात् सुसंस्कृतम् । शान्तिपर्व्वण्यपि तथा हविष्यं भोजयेद् द्बिजान् ॥ आश्वमेधिकमासाद्य भोजनं सार्व्वकामिकम् । तथाश्रमनिवासे तु हविष्यम्भोजयेत् द्बिजान् ॥ मौषले सार्व्वगुणिकं गन्धमाल्यानुलेपनम् । महाप्रास्थानिके तद्वत् सर्व्वकामगुणान्वितम् ॥ स्वर्गपर्व्वण्यपि तथा हविष्यं भोजयेद्द्विजान् । हरिवंशे पर्व्वणि च पायसं तत्र भोजयेत् ॥ पारणे पारणे राजन् ! यथावद्भरतर्षभ ! । समाप्य सर्व्वाः प्रयतः संहिताः शास्त्र- कोविदः ॥ * ॥
शुभे देशे निवेश्याथ क्षौमवस्त्राभिसंवृताः । शुक्लाम्बरधरः स्रग्वी शुचिर्भूत्वा स्वलङ्कृतः ॥ अर्च्चयेत यथान्यायं गन्धमाल्यैः पृथक् पृथक् । संहितापुस्तकान् राजन् ! प्रयतः सुसमा- हितः ॥ भक्ष्यैर्म्माल्यैश्च पेयैश्च कामैश्च विविधैः शुभैः । हिरण्यञ्च सुवर्णञ्च दक्षिणामथ दापयेत् ॥ देवताः कीर्त्तयेत् सर्व्वा नरनारायणौ तथा । ततो गन्धैश्च माल्यैश्च स्वलंकृत्य द्बिजोत्तमान् ॥ तर्पयेद्विविधैः कामैर्दानैश्चोच्चावचैस्तथा । अतिरात्रस्य यज्ञस्य फलं प्राप्नोति मानवः ॥ प्राप्नुयाच्च क्रतुफलं तथा पर्व्वणि पर्व्वणि । वाचको भरतश्रेष्ठ ! व्यक्ताक्षरपदस्वरः ॥ भविष्यं श्रावयेद्बिद्वान् भारतं भरतर्षभ ! । भुक्तवत्सु द्विजेन्द्रषु यथावत् संप्रदापयेत् ॥ वाचकं भरतश्रेष्ठ ! भोजयित्वा स्वलङ्कृतम् । वाचके परितुष्टे तु शुभा प्रीतिरनुत्तमा ॥ ब्राह्मणेषु तु तुष्टेषु प्रसन्नाः सर्व्वदेवताः । * । ततो हि वरणं कार्य्यं द्विजानां भरतर्षभ ! ॥ सर्व्वकामैर्यथान्यायं साधुभिश्च पृथग्विधैः । इत्येष विधिरुद्दिष्टो मया ते द्विपदां वर ! ॥ श्रद्दधानेन वै भाव्यं यन्मां त्वं परिपृच्छसि । भारतश्रवणाद्राज्ञा पारणे च नृपोत्तम ! ॥ सदा यत्नवता भाव्यं श्रेयस्तु परमिच्छता । * । भारतं शृणुयान्नित्यं भारतं परिकीर्त्तयेत् । भारतं भवने यस्य तस्य हस्तगतो जयः ॥ भारतं परमं पुण्यं भारते विविधाः कथाः । भारतं सेव्यते देवैर्भारतं परमं पदम् ॥ भारतं सर्व्वशास्त्राणामुत्तमं भरतर्षभ ! । भारतात् प्राप्यते मोक्षस्तत्त्वमेतद्ब्रवीमि ते ॥ महाभारत्तमाख्यान क्षितिं गाञ्च सरस्वतीम् । ब्राह्मणान् केशवञ्चैव कीर्त्तयन्नावसीदति ॥ वेदे रामायणे पुण्ये भारते भरतर्षभ ! । आदौ चान्ते च मध्ये च हरिः सर्व्वत्र गीयते ॥ यत्र विष्णुकथा दिव्याः श्रुतयश्च सनातनाः । तच्छ्रोतव्यं मनुष्येण परं पदमिहेच्छता ॥ एतत् पवित्रं परममेतद्धर्म्मनिदर्शनम् । एतत् सर्व्वगुणोपेतं श्रोतव्यं भूतिमिच्छता ॥” इति महाभारते हरिवंशे सर्व्वपर्व्वानुकीर्त्त- नम् ॥ * ॥
त्रिषष्ठिवर्णसंयुक्तमित्यत्र त्रिषष्टि- वर्णाः । अ इ उ ऋ ऌ इति ह्रस्वपञ्चकम् । आ ई ऊ ॠ ॡ इति दीर्घपञ्चकम् । आ ई ऊ ऋ ॡ इति प्लुतपञ्चकम् । ए ओ ऐ औ च दीर्घाः । प्लुतत्वेनापरचतुष्टयम् । अं अः क + पँ इति चत्वारः । ॠ ॡ इति अच्संज्ञकौ द्बौ । अनुनासिकश्चैकः । तथा कादिमावसानाः पञ्चविंशतिवर्णाः । अन्तःस्थाश्चत्वारः । उष्म- चतुष्टयमिति त्रिषष्टिः । इति ॥ * ॥
वर्णानां किलाष्टौ स्थानानि भवन्ति तानि यथा, —
“उरः कण्ठः शिरस्तालु जिह्वादन्तौष्ठ- नासिकाः । अष्टौ स्थानानि वर्णानां ये विदुस्ते हि पाठकाः ॥” * ॥
पारणं यथा, —
“भारतं शतपर्व्वोक्तं मुनिना तत्त्वदर्शिना । पर्व्वभिर्द्दशभिश्चैषां पर्व्वणां पारणं स्मृतम् ॥” इति विक्रमादित्यः ॥ “द्यूतान्तं प्रथमं प्रोक्तं द्बितीयं वनवासिकम् । उद्योगान्तं तृतीयन्तु भीष्मान्तञ्च तुरीयकम् ॥ पञ्चमं द्रोणपर्व्वान्तं कर्णान्तं पारणं ततः । विशोकान्तं सप्तमन्तु शान्तिपर्व्वान्तमष्टमम् ॥ नवमं स्वर्गपर्व्वान्तमाश्चर्य्यान्तमतः परम् ॥” इति च भारतटीकायां अर्ज्जुनमिश्रः ॥ (अन्यत्सर्व्वं भारतशब्दे द्रष्टव्यम् ॥)