संस्कृत-शब्दकोशः

महामद महामहावारुणी

महामनस्

वाचस्पत्यम्

महामनस् ||‍ त्रि० महदुदारं मनस्तद्व्यापारोऽस्य । महाशये । हेमच० ।


शब्दकल्पद्रुमः

महामनाः || [स्] त्रि, (महत् प्रशस्तं मनो यस्य ।)
महाशयः । यथा, —
“महेच्छे तूद्भटोदारोदात्तोदीर्णमहाशयाः । महामना महात्मा च — ॥” इति हेमचन्द्रः । ३ । ३१ ॥ (यथा, ऋग्वेदे । १० । १०३ । ९ । “इन्द्रस्य वृष्णो वरुणस्य राज्ञ आदित्यानां शर्ध उग्रम् । महामनसां भुवनच्यवानां घोषो वेदानां जयतामुदस्थात् ॥” “महामनसां उदारमनसाम् ।” इति तद्भाष्ये सायनः ॥ महाशालपुत्त्रः । यथा, हरिवंशे । ३१ । २० । “महामना नाम सुतो महाशालस्य धार्म्मिकः ॥”)



Correction: