संस्कृत-शब्दकोशः

महामारी महामांस

महामाष

वाचस्पत्यम्

महामाष ||‍ पु० कर्म० । राजमाषे (वरवटी) शब्दच० माषा- षेक्षया तस्य हि महत्त्वात्तथात्वम् ।


शब्दकल्पद्रुमः

महामाषः || पुं, (महांश्चासौ माषश्चेति ।)
राज- माषः । इति शब्दचन्द्रिका ॥ (यथा, सुश्रुते सूत्र- स्थाने २१ अध्याये । “माषमहामाषगोधूमतिल- पिष्टविकृतिदधिदुग्धकृशरापायसेक्षुविकारानू- पौदकमांसवसाविसमृणालकशेरुकशृङ्गाटक- मधुरवल्लीफलसमशनाध्यशनप्रभृतिभिः श्लेष्मा प्रकोपमापद्यते ॥” तथास्य पर्य्यायो गुणाश्च । “राजमाषो महामाषश्चपलश्चवनः स्मृतः । श्वेतो रक्तस्तथाकृष्णस्त्रिविधः स प्रकीर्त्तितः ॥ यो महांस्तेषु भवति स एवोक्तो गुणाधिकः ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)



Correction: