शब्दकल्पद्रुमः
महामांसं || क्ली (महद् गर्हितं मांसम् । अत्र मांसशब्दस्य पूर्ब्बप्रयुक्ततया महच्छब्दस्य गर्हि- तार्थत्वम् । “शङ्खे तैले तथा मांसे वैद्ये ज्योतिषके द्बिजे । यात्रायां पथि निद्रायां महच्छब्दो न दीयते ॥” इति स्मरणात् ।)
नरादिपिशितम् । यथा, —
“अष्टम्यां रुधिरैर्म्मांसैर्म्महामांसैः सुगन्धिभिः । पूजयेद्बहुजातीयैर्व्वलिभिर्भोजनैः शिवाम् ॥” इति तिथ्यादितत्त्वधृतकालिकापुराणम् ॥ अन्यच्च । “गोनरेभाश्वमहिषवराहोष्ट्रोरगोद्भवम् । महामांसाष्टकं देवि ! देवताप्रीतिकारकम् ॥” इति कौलार्च्चनदीपिका ॥