संस्कृत-शब्दकोशः

महामुख महामूर्द्धन्

महामुनि

शब्दकल्पद्रुमः

महामुनि || क्ली (महान् मुनिरिवेति । सर्व्वोप- कारित्वात्तथात्वम् । अभिधानात् क्लीवत्वम् ।)
औषधम् । इति शब्दरत्नावली ॥ धन्याकम् । इति जटाधरः ॥


शब्दकल्पद्रुमः

महामुनिः || पुं, (महांश्चासौ मुनिश्चेति ।)
अगस्त्यः । बुद्धः । इति शब्दरत्नावली ॥ कृपा- चार्य्यः । कालः । इत्यजयपालः ॥ व्यासः । (श्रीनारायणः ।)
यथा, श्रीभागवते । १ । १ । २ । “धर्म्मः प्रोज्झितकैतवोऽत्र परमो निर्म्मत्- सराणां सतां वेद्यं वास्तवमत्र वस्तु शिवदं तापत्रयोन्- मूलनम् । श्रीमद्भागवते महामुनिकृते किंवापरैरीश्वरः सद्यो हृद्यवरुध्यतेऽत्र कृतिभिः शुश्रूषुभिस्तत्- क्षणात् ॥ (महामुनिः श्रीनारायणः । इति तट्टीकायां श्रीधरः ।)
तुम्बुरुवृक्षः । इति राजनिर्घण्टः ॥



Correction: