संस्कृत-शब्दकोशः

महामांस महामुनि

महामुख

शब्दकल्पद्रुमः

महामुखः || पुं, (महत् मुखमस्य ।)
कुम्भीरः । इति हेमचन्द्रः । ४ । ४१६ ॥ (महत् मुखम् ।)
बृहन्मुखे, क्ली । (यथा, बृहत्संहितायाम् । ६७ । ५४ । “वक्त्रं सौम्यं संवृतममलं श्लक्ष्णं समञ्च भूपा- नाम् । विपरीतं क्लेशभुजां महामुखं दुर्भगानाञ्च ॥” महत् मुखं यस्य ।)
तद्वति, त्रि ॥ (महादेवः । यथा, महाभारते । १३ । १७ । ८७ । “महादन्तो महादंष्ट्रो महाजिह्वः महामुखः ॥” सिन्धुराजस्य सैनिकभेदः । यथा, महाभारते । ३ । २७० । १६ । “नकुलन्त्वभिसन्धाय क्षेमङ्करमहामुखौ । उभावुभयतस्तीक्ष्णैः शरवर्षेरवर्षताम् ॥”)



Correction: