वाचस्पत्यम्
महामेद || पु० स्त्री ६ ब० । वैद्यकप्रसिद्धाष्टवर्गोक्ते ओषधिभेदे रत्नमाला । तत्रार्थे स्त्री राजनि० । “महामेदाभिधः कन्दो योरक्षादौ प्रजायते । शुक्लार्द्रकनिभः कन्दो लताजातः सपाण्डुरः । महामेदाभिधो ज्ञेयः” भावप्र० ।
शब्दकल्पद्रुमः
महामेदः || पुं, (मेदयति स्निग्धीकरोतीति । मिद्- + णिच् + अच् । महान् मेदः ।)
अष्टवर्गे प्रसिद्धौषधबिशेषः । तत्पर्य्यायः । पुरोद्भवः २ । इति रत्नमाला ॥ बृहन्मेदश्च ॥