संस्कृत-शब्दकोशः

महारण्य महारम्भ

महारथ

वाचस्पत्यम्

महारथ ||‍ पु० “एकादश सहस्राणि योधयेद्यस्तु धन्विनाम् । शस्त्रशास्त्रप्रवीणश्च विज्ञेयः स महारथः” इत्युक्ते योधभेदे


शब्दकल्पद्रुमः

महारथः || पुं, (रमन्ते लोका यस्मिन्निति । रम + “हनिकुषिनीरमिकाशिभ्यःक्थन् ।” उणा० २ । २ । इति क्थन् । महांश्चासौ रथश्चेति ।)
शिवः । इति महाभारते तस्य सहस्रनाम- स्तोत्रम् । १३ । १७ । १२१ ॥ (महान् रथोऽस्य ।)
अयुतधन्विभिः सहास्त्रशस्त्रनिपुणयोद्धा । यथा, “एको दशसहस्राणि योधयेद्यस्तु धन्विनाम् । अस्त्रशस्त्रप्रवीणश्च महारथ इति स्मृतः ॥” इति भगवद्गीताटीकायां श्रीधरस्वामी ॥ (महान् रथः ।)
बृहद्रथश्च । (यथा, महा- भारते । ३ । ४२ । १७ । “नातप्ततपसा साध्य एष दिव्यो महारथः ॥” राजविशेषः । यथा, मार्कण्डेये । ११८ । २६ । “महारथस्य वाशिष्ठः पुरोधाभून्महीभृतः ॥”)



Correction: