वाचस्पत्यम्
महारस || पु० ६ व० । १ खर्जूरे २ कशेरुणि ३ कोषकार मेदि० ४ इक्षौ पु० काञ्जिके न० जटा० । कर्म० ५ पारदे पु० राजनि० । “दरदः पारदं शस्यो वैक्रान्तं कान्तमभ्रकम् । माक्षिकं विमलश्चेति स्युरेतेऽष्टौ महारसाः” राजनि० उक्तेषु ४ दरदादिषु पु० ।
शब्दकल्पद्रुमः
महारसं || क्ली (महान् अधिको रसोऽस्य । रुचि- प्रदत्वात् तथात्वम् ।)
काञ्जिकम् । इति जटा- धरः ॥ (गुणादयोऽस्य काञ्जिकशब्दे द्रष्टव्याः । महारसविशेष्टे, त्रि । यथा, महाभारते । ३ । १११ । १४ । “तान्यृष्यशृङ्गस्य महारसानि भृशं सुरूपाणि रुचिं ददुर्हि ॥”)
शब्दकल्पद्रुमः
महारसः || पुं, (महानतिमिष्टो रसोऽस्य ।)
खर्ज्जूरः । कोषकारः । कशेरु । इति मेदिनी । से, ५९ ॥ इक्षुः । इति जटाधरः ॥ (अस्यपर्य्यायो यथा, —
“महारसोऽसिपत्रः स्यान्मृत्युपुष्पो मधुतृणः । इक्षुर्वंशककाण्डारभीरुपौण्ड्रादिभेदवान् ॥” इति वैद्यकरत्नमालायाम् ॥ (महान् रसः धातुद्रवः ।)
पारदः । इति राज- निर्घण्टः ॥ (यथास्य पर्य्यायः । “पारदो रसधातुश्च रसेन्द्रश्च महारसः । चपलः शिववीर्य्यञ्च रसः सूतः शिवाह्वयः ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)