संस्कृत-शब्दकोशः

महाराष्ट्री महारुद्र

महारिष्ट

वाचस्पत्यम्

महारिष्ट ||‍ पु० कर्म० । १ गिरिजाते निम्बभेदे राजनि० । २ अत्यशुभे न० ।


शब्दकल्पद्रुमः

महारिष्टः || पुं, (महान् अरिष्टः ।)
महानिम्ब- विशेषः । तत्पर्य्यायः । कैटर्य्यः २ रामणः ३ रमणः ४ गिरिनिम्बः ५ शुक्लसालः ६ । अस्य गुणाः । कटुत्वम् । तिक्तत्वम् । कषायत्वम् । शीतलत्वम् । लघुत्वम् । सन्तापशोषकुष्ठास्र- कृमिभूतविषापहत्वञ्च । इति राजनिर्घण्टः ॥



Correction: