संस्कृत-शब्दकोशः

महारोमन् महार्घ

महारौरव

वाचस्पत्यम्

महारौरव ||‍ पु० कर्म० । “महारौरवसंज्ञस्तु ऊर्ध्वाधस्ताम्र- संपुटे । धम्यते खदिराङ्गारैः प्रच्यते कालमक्षयम्” इत्युक्ते नरकभेदे वह्निपु० ।


शब्दकल्पद्रुमः

महारौरवः || पुं, (रुरूणामयं इति । रुरु + अण् । महान् रौरवः । तत्र गता जीवाः क्रव्यन्- नामकैरुरुभिः पोड्यन्ते अत एवास्य तथा- त्वम् ।)
नरकविशेषः । इत्यमरः । १ । ९ । १ ॥ महान् रौद्रो रवोऽत्र महारौरवः मनीषादि- त्वात् द्रलोपः । इति भरतः ॥ अपि च । “महारौरवसंज्ञन्तु अधोऽर्द्धं ताम्रसंपुटम् । धम्यते खदिराङ्गारैर्गुरुदारापनायकः ॥ देवद्रव्यापहारी च पच्यते कालमक्षयम् ॥” इति वह्निपुराणे पापनाशनवृषदानाध्यायः ॥



Correction: