वाचस्पत्यम्
महार्घ || त्रि० महानर्घो मूल्यं यस्य । बहुमूल्ये विश्वः ।
शब्दकल्पद्रुमः
महार्घं || त्रि (महान् अधिकः अर्घो मूल्यमस्य ।)
महामूल्यम् । इति मेदिनी ॥ घे, १० । (यथा, कथासरित्सागरे । १२ । १४५ । “ततस्तस्मै महार्घाणि रत्नानि सुबहूनि च । विभीषणो ददाति स्म मथुरां गन्तुमिच्छते ॥”)
शब्दकल्पद्रुमः
महार्घः || पुं, (महान् अर्घो मूल्यमादरो वास्य ।)
लावकपक्षी । इति विश्वः ॥