शब्दकल्पद्रुमः
महालिङ्गः || पुं, (महान् पूज्यतमो विपुलो वा लिङ्गोऽस्य ।)
शिवः । इति महाभारते तस्य सहस्रनामस्तोत्रम् ॥ (यथा, राजतरङ्गिण्याम् । २ । १३७ । “अकरोत् स महाहर्म्म्यैर्म्महालिङ्गैर्महावृषैः । महात्रिशूलैर्म्महतीं महामाहेश्वरो महीम् ॥” महत् बृहल्लिङ्गमस्य ।)
बृहल्लिङ्गयुक्तश्च ॥