शब्दकल्पद्रुमः
महालीलसरस्वती || स्त्री (लीलया सरस्वती । महती लीलसरस्वतीति कर्म्मधारयः ।) तारा- विशेषः । “लीलया वाक्प्रदा चेति तेन लीलसरस्वती । तारास्त्ररहिता त्र्यर्णा महालीलसरस्वती ॥” इति तन्त्रसारः ॥