संस्कृत-शब्दकोशः

महावस महावारुणी

महावाक्य

वाचस्पत्यम्

महावाक्य ||‍ न० कर्म० । परस्परसंबद्धार्थके १ वाक्यसमुदायरूपे एकवाक्ये “वाक्यानामेकवाक्यत्वं पुनः संहत्य जायते” मीमांसकाः । वेदान्तोक्ते २ ब्रह्मविद्याप्रतिपादके तत्त्व- मस्याद्युपनिषद्वाक्ये ३ दानादौ अभिलापवाक्ये च ।


शब्दकल्पद्रुमः

महावाक्यं || क्ली (महत् वाक्यम् ।)
योग्यता- काङ्क्षासत्तियुक्तवाक्यसमूहः । इति साहित्य- दर्पणः । २ । २ ॥ न्यायमते तु । स्वघटकानेक- नामलभ्यतादृशार्थकम् । प्रकृत्यर्थमात्रावच्छिन्न- प्रत्ययार्थबोधं प्रत्ययोग्यवाक्यं वा । इति शब्द- शक्तिप्रकाशिका ॥ (महत् महदर्थप्रकाशकं वाक्यम् ।)
तत्त्वमसीति आदिवाक्यम् । प्रतिष्ठा- दावुत्सर्गवाक्यञ्च ॥



Correction: