शब्दकल्पद्रुमः
महावारुणी || स्त्री (वरुणो देवतास्याः । वरुण + अण् । ङीप् । महती वारुणी ।)
गङ्गा- स्नानस्य योगविशेषः । स तु शनिवारशतभिषा- नक्षत्रयुक्तगौणचान्द्रचैत्रकृष्णत्रयोदशीरूपः । यथा, —
“वारुणेन समायुक्ता मधौ कृष्णा त्रयोदशी । गङ्गायां यदि लभ्येत सूर्य्यग्रहशतैः समा ॥ शनिवारसमायुक्ता सा महावारुणी स्मृता । गङ्गायां यदि लभ्येत कोटिसूर्य्यग्रहैः समा ॥” इति तिथ्यादितत्त्वधृतस्कन्दपुराणवचनम् ॥