संस्कृत-शब्दकोशः

महावारुणी महाविराज्

महाविद्या

वाचस्पत्यम्

महाविद्या ||‍ स्त्री कर्म० । “काली तारा महाविद्या षोडशी भुवनेश्वरी । भैरवी छिन्नमस्ता च विद्या धूमावती तथा । वगला सिद्धविद्या च मातङ्गी कमलात्मिका । एताः दश- महाविद्याः” इत्युक्तासु काल्यादिषु दशसु देवीसु ।


शब्दकल्पद्रुमः

महाविद्या || स्त्री (विद्यते ज्ञायते इति । विद् + क्यप् । टाप् । महती विद्या ज्ञानं तत्त्वसाक्षात्- कारो वा यस्याः ।)
देवीविशेषः । सा दशधा । यथा चामुण्डातन्त्रे । “काली तारा महाविद्या षोडशी भुवनेश्वरी । भैरवी छिन्नमस्ता च विद्या धूमावती तथा ॥ वगला सिद्धविद्या च मातङ्गी कमलात्मिका । एता दश महाविद्याः सिद्धविद्याः प्रकीर्त्तिताः ॥ नात्र सिद्धाद्यपेक्षास्ति न नक्षत्रविचारणा । कालादिशोधनं नास्ति न चामित्रादिदूषणम् ॥ सिद्धविद्यातया नात्र युगसेवापरिश्रमः । नास्ति किञ्चिन्महादेवि ! दुःखसाध्यं कथञ्चन ॥” मालिनीविजये । “अथ वक्ष्याम्यहं या या महाविद्या महीतले । दोषजालैरसंस्पृष्टास्ताः सर्व्वा हि फलैः सह ॥ काली नीला महादुर्गा त्वरिता छिन्नमस्तका । वाग्वादिनी चान्नपूर्णा तथा प्रत्यङ्गिरा पुनः ॥ कामाख्या वासली बाला मातङ्गी शैलवासिनी । इत्याद्याः सकला विद्याः कलौ पूर्णफलप्रदाः ॥ सिद्धमन्त्रतया नात्र युगसेवापरिश्रमः । अथ चैता महाविद्याः कलिदोषान्न बाधिताः ॥” इति तन्त्रसारः ॥ * ॥
तासां दशावतारत्वं यथा, —
“प्रकृतिर्विष्णुरूपा च पुंरूपश्च महेश्वरः । एवं प्रकृतिभेदेन भेदास्तु प्रकृतेर्द्दश ॥ कृष्णरूपा कालिका स्यात् रामरूपा च तारिणी । वगला कूर्म्ममूर्त्तिः स्यान्मीनो धूमावती भवेत् ॥ छिन्नमस्ता नृसिंहः स्याद्वराहश्चैव भैरवी । सुन्दरी यामदग्न्यः स्याद्वामनो भुवनेश्वरी ॥ कमला बौद्धरूपा स्यात् दुर्गा स्यात् कल्कि- रूपिणी । स्वयं भगवती काली कृष्णस्तु भगवान् स्वयम् । स्वयञ्च भगवान् कृष्णः कालीरूपो भवेद्व्रजे ॥” इति मुण्डमालातन्त्रम् ॥ (गङ्गा । यथा, काशीखण्डे । २९ । १३९ । “महाविद्या महामाया महामेधा महौ- षधम् ॥”)



Correction: