संस्कृत-शब्दकोशः

महाविद्या महाविल

महाविराज्

शब्दकल्पद्रुमः

महाविराट् || [ज्] पुं, (विशेषेण राजते प्रकाशते । इति । वि + राज् + क्विप् । महांश्चासौ विराट् चेति ।)
महाविष्णुः । यथा, — मुनिरुवाच । “विश्वानां गोलोकं राजन् ! विस्तृतञ्च नभः- समम् । शश्वन्नित्यं डिम्बरूपं श्रीकृष्णेच्छासमुद्भवम् ॥ जलेन परिपूर्णञ्च कृष्णस्य मुखबिन्दुना । सृष्ट्युन्मुखस्यादिसर्गे परिश्रान्तस्य क्रीडतः ॥ प्रकृत्या सह युक्तेन कलया निजया नृप ! । तत्राधारो महद्बिष्णोर्विश्वाधारस्य विस्तृतः ॥ प्रकृतीगर्भसंभूतडिम्बोहूतस्य भूमिप ! । सुविस्तृते जलाधारे शयानश्च महान् विराट् ॥ राधेश्वरस्य कृष्णस्य षोडशांशः प्रकीर्त्तितः । दूर्व्वादलश्यामरूपः सस्मितश्च चतुर्भुजः । वनमालाधरः श्रीमान् शोभितः पीतवाससा ॥” इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे ५१ अध्यायः ॥



Correction: