शब्दकल्पद्रुमः
महाविषुवचक्रं || क्ली (महाविषुवस्य चक्रम् ।)
नक्षत्रघटितनराकारचक्रम् । यथा, “मूर्द्ध्नि सप्त मुखे त्रीणि हृदये पञ्च विन्यसेत् । त्रितयं हस्तपादेषु महाविषुवभक्रमात् ॥ मस्तके भूपतेः सौख्यं वदने पटुता स्वभे । हृदये च धनाध्यक्षोऽर्थप्राप्तिर्दक्षिणे करे ॥ वामे करे महद्दुःखं सुखं पादे च दक्षिणे । भ्रमणं वामपादे च कथितं विषुवत्फलम् ॥” इति ज्योतिषतत्त्वम् ॥