वाचस्पत्यम्
महाव्रण || न० कर्म० । (नालिघा) दुष्टव्रणे ।
शब्दकल्पद्रुमः
महाव्रणं || क्ली (महच्च तद्व्रणञ्चेति ।)
दुष्टव्रणम् । नाली घा इति भाषा । यथा, —
“कुर्य्यात् सप्तदशावृत्तं तथाष्टादशकं प्रिये ! । महाव्रणविमोक्षाय विंशावृतं पठेन्नरः ॥” इति तिथ्यादितत्त्वधृतवाराहीतन्त्रवचनम् ॥