वाचस्पत्यम्
महाव्रत || न० कर्म० । १ अतिशयव्रते शारदीयदुर्गापूजादौ “महाव्रतं महापुण्य शङ्कराद्यैरनुष्ठितम्” देवीपु० २ द्वादशवार्षिके प्रायश्चित्तात्मके व्रतभेदे च ।
शब्दकल्पद्रुमः
महाव्रतं || क्ली (महच्च तद्व्रतञ्चेति ।)
द्बादश- वार्षिकव्रतम् । यथा । ‘तेन वधकालादूर्द्ध्वं विंशत्यधिकशतस्य यावदवशिष्टं तावत्परि- माणमहाव्रतानुरूपा धेनवो दातव्याः ।’ इति प्रायश्चित्तविवेके भवदेवभट्टमतम् ॥ शरत्- कालीनदुर्गापूजनम् । यथा, —
“महाव्रतं महापुण्यं शङ्कराद्यैरनुष्ठितम् । कर्त्तव्यं मुरराजेन्द्र ! देवीभक्तिसमन्वितैः ॥” इति तिथ्यादितत्त्वधृतदेवीपुराणवचनम् ॥ अरुणोदयकालीनमाघस्नानम् । यथा, —
“वासुदेवं हरिं कृष्णं श्रीधरञ्च स्मरेत्ततः ॥ दिवाकर ! जगन्नाथ ! प्रभाकर ! नमोऽस्तु ते । परिपूर्णं कुरुष्वेद माघस्नानं महाव्रतम् ॥” इति मलमासतत्त्वधृतपद्मपुराणवचनम् ॥ (महाव्रतधारिणि, त्रि । यथा, महाभारते । १३ । ५४ । २१ । “ततोऽन्यस्मिन् वनोद्देशे पुनरेव ददर्श तम् । कौश्यां वृष्यां समासीनं जपमानं महा- व्रतम् ॥”)