संस्कृत-शब्दकोशः

महाशङ्क महाशठ

महाशङ्ख

शब्दकल्पद्रुमः

महाशङ्खः || पुं, (महान् शङ्ख इव बृहच्छुभ्रत्वात् ।)
मानुषास्थि । संख्याविशेषः । स च दश- निखर्व्वः । ललाटम् । इति मेदिनी । खे, १६ ॥ (महान् महार्हः शङ्खः ।)
निधिविशेषः । इति विश्वः ॥ कर्णनेत्रयोर्म्मध्यगतास्थि । यथा, —
“कर्णनेत्रान्तरालास्थि महाशङ्खः प्रकीर्त्तितः ।” तस्य मालया जपविधिर्यथा, —
“महाशङ्खमयी माला नीलसारस्वते विधौ । नृललाटास्थिखण्डेन रचिता जपमालिका ॥ महाशङ्खमयी माला ताराविद्याजपे प्रिये ! ।” इति तन्त्रसारधृतमुण्डमालातन्त्रम् ॥ (महान् शङ्खः ।)
वृहच्छङ्खः । यथा, —
“पौण्ड्रं दध्नौ महाशङ्खं भीमकर्म्मा वृकोदरः ।” इति श्रीभगवद्गीतायाम् १ अध्यायः ॥ (सर्पभेदः । यथा, भागवते । ५ । २४ । ३१ । “ततोऽधस्तात् पाताले नागलोकपतयोवासुकि- प्रसुखाः शङ्खकुलिकमहाशङ्खश्वेतधनञ्जयधृत- राष्ट्रशङ्खचूडकम्बलाश्वतरदेवदत्तादयो महा- भोगिनो महामर्षा निवसन्ति ।”)



Correction: