संस्कृत-शब्दकोशः

महासर्ज महासहा

महासह

वाचस्पत्यम्

महासह ||‍ पु० कर्म० । १ पुष्पप्रधाने कुब्जकवृक्षे राजनि० । २ माषप- र्ण्याम् स्त्री ३ अम्लानवृक्षे च स्त्री अमरः । ४ अतिक्षमे त्रि०


शब्दकल्पद्रुमः

महासहः || पुं, (सहते इति । सह + अच् । महान् सहः ।)
कुब्जकवृक्षः । इति राजनिर्घण्टः ॥ (बाणपुष्प इति गौडादौ प्रसिद्धः । यथास्य पर्य्यायः । “अम्लातोऽम्लाटनः प्रोक्तस्तथाम्लातक इत्यपि । कुरण्टको वर्णपुष्पः स एवोक्तो महासहः ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)



Correction: