शब्दकल्पद्रुमः
महासाहसं || क्ली (महच्च तत् साहसञ्च ।) अति- बलात्कारकृतकार्य्यम् । अतिशयदण्डः । इति साहसशब्दार्थे मेदिनी । से, ४५ ॥ (महत् साहसमत्र ।) अतिदुष्कृतकर्म्म । अतिशयद्वेषः । इति साहसशब्दार्थे हेमचन्द्रः । ३ । ४०० ॥