संस्कृत-शब्दकोशः

महासाहस महासिंह

महासाहसिक

शब्दकल्पद्रुमः

महासाहसिकः || त्रि (महानतिशयः साह- सिकः ।)
चौरः । इति केचित् ॥ अतिसाहस- युक्तश्च । बलपूर्ब्बापहारकः । यथा, —
“चाटतस्करदुर्व्वृत्तमहासाहसिकादिभिः । पीड्यमानाः प्रजा रक्षेत् कायस्थैश्च विशेषतः ॥” इति याज्ञवल्क्यवचनम् ॥ चाटाः प्रतारकाः विश्वास्य ये परधनमप- हरन्ति । प्रच्छन्नापहारिणः तस्कराः । दुर्व्वृत्ताः इन्द्रजालिककितवादयः । सहो बलं सहसा बलेन कृतं साहसं महच्च तत् साहसञ्च महा- साहसं तेन वर्त्तन्त इति महासाहसिकाः प्रसह्यापहारिणः । इति मिताक्षरायामाचा- राध्यायः १ ॥



Correction: