वाचस्पत्यम्
महासिंह || पु० नित्यक० । १ शरभे राजनि० २ वृहत्सिंहे च
शब्दकल्पद्रुमः
महासिंहः || पुं, (महान् सिंह इव ।)
शरभः । इति राजनिर्घण्टः ॥ (महांश्चासौ सिंहश्च ।)
बृहत्सिंहः । स च देवीवाहनम् । यथा, —
“उत्थाय च महासिंहं देवी चण्डमधावत ।” इति मार्कण्डेयपुराणे देवीमाहात्म्यम् ॥