संस्कृत-शब्दकोशः

महिष महिषघ्नी

महिषकन्द

शब्दकल्पद्रुमः

महिषकन्दः || पुं, (महिषाख्यया प्रसिद्धः कन्दः ।)
महाकन्दविशेषः । तत्पर्य्यायः । शुभ्रालुः २ लुलापकन्दः ३ शुक्लकन्दः ४ महिषीकन्दः ५ । अस्य गुणाः । कटुत्वम् । उष्णत्वम् । कफवाता- मयापहत्वम् । मुखजाड्यहरत्वम् । रुच्यत्वम् । असितश्चेत् महासिद्धिकरत्वञ्च । इति राज- निर्घण्टः ॥



Correction: