शब्दकल्पद्रुमः
महिषघ्नी || स्त्री (महिषं महिषासुरं हन्तीति । हन् + बाहुलकात् टक् । ङीप् ।)
दुर्गा । यथा, दुर्गोत्सवपद्धतौ । “महिषघ्नि ! महामाये चामुण्डे मुण्ड- मालिनि ! । आयुरारोग्यविजयं देहि देवि ! नमोऽस्तुते ॥” अपि च । देवीपुराणे । “सिंहमारुह्य कल्पान्ते निहतो महिषो यया । महिषघ्नी ततो देवी कन्या वै सिंहवाहिनी ॥”