वाचस्पत्यम्
महिषाक्ष || पु० महिषस्याक्षीव षच्समा० । गुग्लुभेदे । स्वार्थे क तत्रैव ।
शब्दकल्पद्रुमः
महिषाक्षः || पुं, (महिषस्य अक्षीवेति । “अक्ष्णो- ऽदर्शनात् ।” ५ । ४ । ७६ । इति समासान्तोऽच् ।)
गुग्गुलुः । इति राजनिर्घंण्टः ॥ (तथास्य पर्य्यायः । “जटाषुः कालनिर्य्यासः कौशिको गुग्गुलुः पुरः । देवधूपः सर्व्वसहो महिषाक्षः पलङ्कषा ॥” इति वैद्यकरत्नमालायाम् ॥ अस्य व्यवहारविषयो यथा, —
“महिषाक्षो महानीलो गजेन्द्राणां हितावुभौ । विशेषेण मनुष्याणां कनकः परिकीर्त्तितः ॥ कदाचिन्महिषाक्षश्च यतः कैश्चिन्नृणामपि ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)