शब्दकल्पद्रुमः
महिषी || स्त्री (महिषस्य कृताभिषेकस्य नृपस्य पत्नी । “पुंयोगादाख्यायाम् ।” ४ । १ । ४८ । इति ङीष् ।)
कृताभिषेका राजपत्नी । इत्य- मरः । २ । ६ । ५ ॥ (यथा, रघौ । २ । २५ । “इत्थं व्रतं धारयतः प्रजार्थं समं महिष्या महनीयकीर्त्तेः । सप्त व्यतीयुस्त्रिगुणानि तस्य दिनानि दीनोद्धरणोचितस्य ॥”)
सैरिन्ध्री । औषधिभेदः । इति मेदिनी । षे, ४३ ॥ महिषयोषित् । तत्पर्य्यायः । मन्दगमना २ महाक्षीरा ३ पयस्विनी ४ लुलापकान्ता ५ कलुषा ६ तुरङ्गद्विषणी ७ ॥ अस्याः क्षीर- गुणाः । मधुरत्वम् । विपाके शीतलत्वम् । गुरुत्वम् । बलपुष्टिप्रदत्वम् । वृष्यत्वम् । पित्तदाहास्रनाशित्वञ्च । “माहिषं मधुरं गव्यात् स्निग्धं शुक्रकरं गुरु । निद्राकरमभिष्यन्दि क्षुधाधिक्यकरं हिमम् ॥ तस्या दधिगुणाः । मधुरत्वम् । स्निग्धत्वम् । श्लेष्मकारित्वम् । रक्तपित्तनाशित्वम् । बलास्र- वर्द्धनत्वम् । बल्यत्वम् । श्रमघ्नत्वम् । शोधन- त्वञ्च । “माहिषं दधि सुस्निग्धं श्लेष्मलं वातपित्तनुत् । स्वादुपाकमभिष्यन्दि वृष्यं गुर्व्वस्रदूषणम् ॥ * ॥
” अस्या नवनीतगुणाः । कषायत्वम् । मधुर- रसत्वम् । शीतत्वम् । वृष्यत्वम् । बल्यत्वम् । ग्राहित्वम् । पित्तघ्नत्वम् । तुन्ददत्वञ्च । “नवनीतं महिष्यास्तु वातश्लेष्मकरं गुरु । दाहपित्तश्रमहरं मेदःशुक्रविवर्द्धनम् ॥” अस्या घृतगुणाः । उत्तमत्वम् । धृतिकरत्वम् । सुखदत्वम् । कान्तिकृत्त्वम् । वातश्लेष्मनाशित्वम् । बलकरत्वम् । वर्णप्रदाने क्षमत्वम् । दुर्नाम- ग्रहणीविकारशमनत्वम् । मन्दानलोद्दीप- नत्वम् । चक्षुष्यत्वम् । गव्यतो न श्रेष्ठत्वम् । हृद्यत्वम् । मनोहारित्वञ्च । “माहिषन्तु घृतं स्वादु पित्तरक्तानिलापहम् । शीतलं श्लेष्मलं वृष्यं गुरु स्वादु विपच्यते ॥” इति भावप्रकाशः ॥ * ॥
अस्या मूत्रगुणाः । आनाहशोफगुल्भदोष- नाशित्वम् । कटुत्वम् । उष्णत्वम् । कुष्ट- कण्डूतिशूलोदररोगनाशित्वञ्च । इति राज- निर्घण्टः ॥ (अस्या दुग्धगुणाश्च यथा, चरके सूत्रस्थाने २७ अध्याये । “महिषीणां गुरुतरं गव्याच्छीततरं पयः । स्नेहानूनमनिद्राय हितमत्यग्नये च तत् ॥”