वाचस्पत्यम्
महीध्र || पु० महीं धारयति धृ—क । पर्वते अमरः । अच् । महीधरोऽप्यत्र ।
शब्दकल्पद्रुमः
महीध्रः || पुं, (महीं धरतीति । धृ + कः ।)
पर्व्वतः । इत्यमरः । २ । ३ । १ ॥ (यथा, श्रीभागवते । २ । ७ । ३२ । “गौपैर्मखे प्रतिहते ब्रजविप्लवाय देवेऽभिवर्षति पशून् कृपया रिरक्षुः । धर्त्तोच्छिलीन्ध्रमिव सप्तदिनानि सप्त- वर्षो महीध्रमनघैककरे सलीलम् ॥” महीं धरति उद्धरतीति । धृ + कः । महेरु- द्धर्त्ता । यथा, तत्रैव । ३ । १३ । २६ । “उत्क्षिप्तबालः खचरः कठोरः सटा विधुन्वन् खररोमशत्वक् । खुराहताभ्रः सितदंष्ट्र ईक्षा- ज्योतिर्बभासे भगवान् महीध्रः ॥” “महीध्रः पृथिव्या उद्धर्त्ता ।” इति तट्टीकायां स्वामी ॥)