शब्दकल्पद्रुमः
महीपालः || पुं, (महीं पालयतीति । पाल + अण् ।)
राजा । यथा, मार्कण्डेयपुराणे । ८८ । ६१ । “स पपात महीपृष्ठे शस्त्रसंघसमाहतः । नीरक्तश्च महीपाल ! रक्तवीजो महासुरः ॥” (राजविशेषः । यथा, कथासरित्सागरे । ५६ । ७ । “चन्द्रस्वामिन् ! महीपालो नाम्ना कार्य्यः सुतस्त्वया । राजा भूत्वाचिरं यस्मात् पालयिष्यत्ययं महीम् ॥”)