संस्कृत-शब्दकोशः

महीय्यमान महीलता

महीरुह

वाचस्पत्यम्

महीरुह ||‍ पु० मह्यां रोहति रुह—क । १ वृक्षे अमरः २ शाकवृक्षे राजनि० ।


शब्दकल्पद्रुमः

महीरुहः || पुं, (मह्यां रोहति जायत इति । रुह + कः ।)
वृक्षः । इत्यमरः । २ । ४ । ५ । (यथा, विष्णुपुराणे । १ । १५ । १ । “तपश्चरत्सु पृथिवीं प्रचेतःसु महीरुहाः । अरक्ष्यमाणामावव्रुर्बभूवाथ प्रजाक्षयः ॥”)
शाकवृक्षः । इति राजनिर्घण्टः ॥



Correction: