शब्दकल्पद्रुमः
महौषधी || स्त्री (महौषधि + ङीप् ।)
श्वेतकण्ट- कारी । ब्राह्मी । (पर्य्यायोऽस्या यथा, —
“ब्राह्मी कपोतवङ्का च सोमवल्ली सरस्वती । मण्डूकपर्णी माण्डूकी त्वाष्ट्री दिव्या महौषधी ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
कटुका । अतिविषा । इति राजनिर्घण्टः ॥ हिलमोचिका । इति त्रिकाण्डशेषः ॥