संस्कृत-शब्दकोशः

महौषधी माकन्द

मा

वाचस्पत्यम्

मा ||‍ अव्य० ङिदनुबन्धात् दैवादिकात् आदादिकाद्वा माधातोः किप् । १ वारणे । धातोर्ङित्त्वेन शब्दे ङित्त्वव्यवहा- रात् “न माङ्योगे” पा० ङिदनुबन्धधातुनिष्पन्न योगे न अडागमः तद्भिन्नयोगे तु स्यादेव “मा निषाद । प्रतिष्ठां त्वमगमः” इति रामायणम् । मा—क—टाप् । २ ल- क्ष्म्याम् मेदि० ३ मातरि च स्त्री । मा—सम्प० भावे क्विप् । ४ माने स्त्री शब्दर० ।


वाचस्पत्यम्

मा ||‍ माने अदा० प० सक० अनिट् । माति अमासीत् ।


वाचस्पत्यम्

मा ||‍ माने दि० ङित् आ० सक० अनिट् । मायते अमास्त ।


वाचस्पत्यम्

मा ||‍ शब्दे अक० माने सक० जु० आ० अनिट् । मिमीते अमित ममे ।


शब्दकल्पद्रुमः

मा || ङ य माने । इति कविकल्पद्रुमः ॥ (दिवा०- आत्म०-सक०-अनिट् ।)
ङ य मायते । इति दुर्गादासः ॥


शब्दकल्पद्रुमः

मा || ङ लि शब्दे । माने । इति कविकल्पद्रुमः ॥ (ह्वा०-आत्म०-सक०-अनिट् ।)
ङ लि मिमीते । श्रुत्या धर्म्मं मिमीते यः । इति हलायुधः ॥ इति तट्टीकायां दुर्गादासः ॥


शब्दकल्पद्रुमः

मा || त्रि (अस्मद् + द्वितीयैकवचने । “त्वा मौ द्वितीयायायाः ।” ८ । १ । २३ । इति मामित्यस्य स्थाने विकल्पेन मादेशः ।)


शब्दकल्पद्रुमः

मा || ल माने । इति कविकल्पद्रुमः ॥ (अदा०-पर०- सक०-अनिटु ।)
ल माति भूमिं नलेन राजा । न मान्ति मानिनो यस्य यशस्त्रिभुवनोदरे ॥” इति हलायुधः ॥ इति दुर्गादासः ॥


शब्दकल्पद्रुमः

मा || व्य (मा + क्विप् ।)
वारणम् । (यथा रामायणे । १ । २ । १५ । “मा निषाद ! प्रतिष्ठां त्वमगमः शाश्वतीः समाः ॥”)
विकल्पः । इति मेदिनी । अव्ययवर्गे, ४९ ॥


शब्दकल्पद्रुमः

मा || स्त्री (मा + क्विप् । यद्बा, मा + क । तत ष्टाप् ।)
लक्ष्मीः । इति मेदिनी । मे, १ ॥ माता । (यथा, साहित्यदर्पणे । १० म । “मारमा सुषमा चारुरुचा मारबधूत्तमा । मात्तधूर्त्ततमावासा सा वामा मेऽस्तु मा रमा ॥”)
मानम् । इत्येकाक्षरकोषः शब्दरत्नावली च ॥


शब्दकल्पद्रुमः

मां || त्रि (अस्मद् + द्वितीयैकवचने । “त्वा मौ द्वितीयायायाः ।” ८ । १ । २३ । इति मामित्यस्य स्थाने विकल्पेन मादेशः ।)
मदीया कर्म्मता । आमाके इति भाषा ॥ अस्मच्छब्दात् द्बितीयैकवचननिष्पन्नं पदम् । इति व्याकरणम् ॥ (यथा, देवीभागवते । १ । ५ । ६६ । मदीया कर्म्मता । आमाके इति भाषा ॥ अस्मच्छब्दात् द्बितीयैकवचननिष्पन्नं पदम् । इति व्याकरणम् ॥ (यथा, देवीभागवते । १ । ५ । ६६ । “सिन्धोः पुत्र्यां रोषिता किं त्वमाद्ये ! कस्मादेनां प्रेक्षसे नाथहीनाम् । क्षन्तव्यस्ते स्वांशजातापराधो व्युत्थाप्यैनं मोदितां मां कुरुष्व ॥”)



Correction: