वाचस्पत्यम्
मागध || पु० मगधदेशे भवः अण् । १ श्वेतजीरके मेदि० २ स्तुति- पाठके अमसः क्षत्रियायां वैश्याजाते ३ वर्णसङ्करभेदे (भाट) च । ४ यूथिकायां ५ पिप्पल्यां स्त्री मेदि० ङीप् । ६ सूक्ष्मैलायां ७ शर्करायां शब्दच० ८ भाषाविशेषे च स्त्री हेमच० । ९ मगधदेशजाते त्रि० ।
शब्दकल्पद्रुमः
मागधः || पुं, (मगधस्य तद्बंशस्यापत्यम् । “द्व्यञ्- मगधकलिङ्गसूरमसादण् ।” ४ । १ । १७० । इति । अण् ।)
पाणिस्वनकः । इति महा- भारतम् ॥ वंशक्रमेण महत्त्ववेदिराजाग्रस्तुति- कारी । तत्पर्य्यायः । मधुकः २ वन्दी ३ स्तुति- पाठकः ४ । इत्यमरभरतौ । २ । ८ । ९७ । तस्योत्पत्तिर्यथा, — ततोऽस्य दक्षिणं हस्तं ममन्थुस्ते तदा द्विजाः । मथ्यमाने च तत्राभूत् पृथुर्वैण्यः प्रतापवान् ॥ तस्य वै जातमात्रस्य यज्ञे पैतामहे शुभे । सूतः सूत्यां समुत्पन्नः सौत्येऽहनि महामते ! ॥ तस्मिन्नेव महायज्ञे जज्ञे प्राज्ञोऽथ मागधः । प्रोक्तौ तदा मुनिवरैस्तावुभौ सूतमागधौ ॥ स्तूयतामेष नृपतिः पृथुर्वैण्यः प्रतापवान् ।” सूत्यामिति सूतिरभिषूतिः अभिषूयते कण्ड्यते सोमोऽस्यामिति सूतिः सोमाभिषवभूमिस्त- स्याम् । सौत्येऽहनि तस्मिन्नेव दिने । इति विष्णुपुराणे १ अंशे ४१ अध्यायस्तट्टीका च ॥ (यथा, महाभारते । १३ । ४८ । १२ । “वन्दी तु जायते वैश्यान्मागधो वाक्य- जीवनः ।”)
वर्णसङ्करजातिविशेषः । (यथा, मानवे । १० । ११ । “क्षत्त्रियाद्विप्रकन्यायां सूतो भवति जातितः । वैश्यान्मागधवैदेहौ राजविप्राङ्गनासुतौ ॥”)
स तु क्षत्त्रियायां वैश्याज्जातः । भाट् इति ख्यातः । मगधेषु भवो मागधः ष्णः इत्यमर- भरतौ । २ । १० । २ । जरासन्धराजः । तथा, —
“मागधो न च हन्तव्यो भूयः कर्त्ता बलोद्यमम् ।” इति श्रीभागवते १० स्कन्धः ॥ शुक्लजीरकः । मगधदेशोद्भवे त्रि । इति मेदिनी । मे, ३४ ॥ (यथा, महाभारते । ६ । ९ । ४९ । “अन्ध्राश्च बहवो राजन्नन्तर्गिर्य्यास्तथैव च । बहिर्गिर्य्याङ्गमलदा मागधा मालवाज्जटाः ॥”)