संस्कृत-शब्दकोशः

मागधादेवी माघ

मागधी

शब्दकल्पद्रुमः

मागधी || स्त्री (मागधे जाता । मगध + अण्, ङीष् ।)
यूथिका । पिप्पली । इत्यमरमेदिनी- करौ । धे, । ३४ । २ । ४ । ९६ । (यथास्याः पर्य्यायः । “पिप्पली च पलाशौण्डी वैदेही मागधी- कणा । कृष्णोपकुल्या मगधी कोलास्यात्तिक्त तण्डुला ॥” इति वैद्यकरत्नमालायाम् ॥)
त्रुटिः । गुजराटी एलाचि इति भाषा । इति शब्दचन्द्रिका ॥ शर्करा । इति जटाधरः ॥ भाषाविशेषः । इति हेमचन्द्रः ॥ यथा च साहित्यदर्पणे । ६ । १६० । “अत्रोक्ता मागधी भाषा राजान्तःपुरचारि- णाम् ॥” (तद्देशभवे, त्रि । यथा, महाभारते । १ । ९५ । ४१ । “अनश्वा खलु मागधीमुपयेमे अमृतां नाम तस्यामस्य जज्ञे परीक्षित् ॥)



Correction: