वाचस्पत्यम्
माघ || पु० मघानक्षत्रयुक्ता पौर्णमासी अण् ङीप् माघी सात्र मासे पुनरण् । चैवावधिके १ एकादशे चान्द्रे मासे । २ तत्पौर्णमास्यां स्त्री ङीप् ३ शिशुपालबधकाव्ये ४ तत्कर्त्तरि च पु० । “तावद्भा भारवेर्भाति यावन्माघस्य नोदयः” इत्युद्भटः ।
शब्दकल्पद्रुमः
माघः || पुं, श्रीदत्तकसूनुशिशुपालवधमहाकाव्य- कर्त्ता । इति तद्ग्रन्थशेषपुष्पिका ॥ स्वनाम- ख्यातमहाकाव्यम् । यथा, — पुष्पेषु जाती नगरेषु काञ्ची नारीषु रम्भा पुरुषेषु विष्णुः । नदीषु गङ्गा नृपतौ च रामः काव्येषु माघः कविकालिदासः ॥” इति प्राचीनाः ॥ वैशाखादिद्वादशमासान्तर्गतदशममासः । मघायुक्ता पौर्णमासी यत्र मासे सः ॥ तत्- पर्य्यायः । तपाः २ । इत्यमरः । ४ । १ । ४ । १५ ॥ स च त्रिविधः । मकरस्थरव्यारब्धशुक्लप्रति- पदादिदर्शान्तो मुख्यचान्द्रः १ । कृष्णप्रति- पदादिपौर्णमास्यन्तो गौणचान्द्रः २ । मकरस्थ- रविकः सौरः ३ । इति मलमासतत्त्वीयलिखन- स्वरसात् ॥ तत्र जातफलम् । “विद्याविनीतः स्वकुलप्रधानः सदा सदाचारयुतः प्रवीणः । योगानुरक्तो विषयेष्वसक्तो माघेऽथ मासे मघवानिवेशः ॥” इति कोष्ठीप्रदीपः ॥ * ॥
अथ, माघकृत्यम् । पाद्मे । “स्वर्गलोके चिरं वासो येषां मनसि वर्त्तते । यत्र क्वापि जले तैस्तु स्नातव्यं मृगभास्करे ॥” मृगो मृगास्यत्वेन मकरः । तत्स्थे भास्करे । तत्र सङ्कल्पः । अरुणोदयकाले जले मज्जनं कृत्वा आचम्य उत्तराभिमुखः ॐ तत् सदित्यु- च्चार्य्य कुशकुसुमतिलजलान्यादाय ओमद्य माघे मासि अमुकपक्षे अमुकतिथावारभ्य मकरस्थ- रविं यावत् प्रत्यहममुकगोत्रोऽमुकदेवशर्म्मा स्वर्गलोके चिरकालवासकामो विष्णुप्रीतिकामो वा प्रातःस्नानमहं करिष्पे इति संकल्प्य गङ्गाव्यतिरिक्तजलमात्रेऽपि स्नानं कर्त्तव्यम् । प्रतिदिनसङ्कल्पे तु आरभ्य मकरस्थरविं यावत् प्रत्यहमिति न वक्तव्यं किन्तु मास्यनन्तरं मकरस्थे रवावित्यधिकं वक्तव्यम् । चान्द्रस्नानवाक्यन्तु वैशाखकृत्येऽनुसन्धेयम् । तत्र सङ्कल्पं कृत्वा यथोक्तविधिना स्नानेति कर्त्तव्यतां विधाय, —
“ॐ दुःखदारिद्र्यनाशाय श्रीविष्णोस्तोषणाय च । प्रातःस्नानं करोम्यद्य माघे पापप्रणाशनम् ॥ मकरस्थे रवौ माघे गोविन्दाच्युत माधव । स्नानेनानेन मे देव ! यथोक्तफलदो भव ॥” इत्युच्चार्य्य स्नायात् । ततो वासुदेवं हरिं कृष्णं श्रीधरञ्च स्मरेत्ततः ॥ “ॐ दिवाकर जगन्नाथ प्रभाकर नमोऽस्तु ते । परिपूर्णं कुरुष्वेदं माघस्नानं महाव्रतम् ॥” चान्द्रस्नाने मकरार्कास्पष्टकाले मकरस्थे रवा- वित्यस्य न पाठः । असमवेतार्थत्वात् । तीर्थे तु । “माघमासमिमं पुण्यं स्नाम्यहं देव माधव । तीर्थस्यास्य जले नित्यं प्रसीद भगवन् हरे ॥” इति पठित्वा दुःखदारिद्र्यनाशायेत्यादिकं पठितव्यम् । गङ्गायान्तु पद्मपुराणे । “दिने दिने सहस्रन्तु सुवर्णानां विशाम्पते ! । तेन दत्तं हि गङ्गायां यो माघे स्नाति माधव ॥” मानव इति क्वचित् पाठः । एकदा सङ्कल्पे तु प्रतिदिनसहस्रसुवर्णदानजन्यफलसमफलप्राप्ति- कामः श्रीविष्णुप्रीतिकामो वा माघमासं यावत् प्रत्यहं गङ्गायां प्रातःस्नानमहं करिष्ये । इति वाक्ये विशेषः । प्रतिदिनसंकल्पे तु सहस्रसुवर्ण- दानजन्यफलसमफलप्राप्तिकामो विष्णुप्रीति- कामो वा गङ्गायां प्रातःस्नानमहं करिष्ये इति यथोक्तविधिना स्नानेतिकर्त्तव्यतां विधाय । “ॐ माघमासमिमं पुण्यं स्नाम्यहं देव माधव । तीर्थस्यास्य जले नित्यं प्रसीद भगवन् हरे ॥ दुःखदारिद्र्यनाशाय श्रीविष्णोस्तोषणाय च । प्रातःस्नानं करोम्यद्य माघे पापप्रणाशनम् ॥ मकरस्थे रवौ माघे गोविन्दाच्युत माधब । स्नानेनानेन मे देव यथोक्तफलदो भव ॥” इति पठित्वा स्नायात् । ततः वासुदेवं हरिं कृष्णं श्रीधरञ्च स्मरेत्ततः ॥ “दिवाकर जगन्नाथ प्रभाकर नमोऽस्तु ते । परिपूर्णं कुरुष्वेदं माघस्नानं महाब्रतम् ॥” इति पठेत् ॥ * ॥
स्कन्दपुराणम् । “सम्प्राप्ते मकरादित्ये पुण्ये पुण्यप्रदे शुभे । कर्त्तव्यो नियमः कश्चिद्व्रतरूपी नरोत्तमैः ॥” तत्तत्पुण्यकामः श्रीविष्णुप्रीतिकामो वा इति वाक्ये विशेषः ॥ * ॥
पौष्याः पौर्णमास्या ऊर्द्ध्वं माघपौर्णमासीपर्य्यन्तं मदिरातुल्यत्वान्मूलकं न भोक्तव्यम् ॥ * ॥
पौष्या ऊर्द्ध्वं माघकृष्णाष्टम्यां छागमांसेन श्राद्धं कर्त्तव्यम् । मांसाभावे पायसोपकरणेन । तदभावे केवलान्नेन वा श्राद्धं कर्त्तव्यम् ॥ * ॥
अथ रटन्तीचतुर्द्दशी । “माघे मास्यसिते पक्षे रटन्त्याख्यचतुर्द्दशी । तस्यामुदयवेलायां स्नाता नावेक्षते यमम् ॥” उदयवेलायां अरुणोदयवेलायाम् । “अनर्काभ्युदिते काले माघे कृष्णचतुर्द्दशी । सतारव्योमकाले तु तस्यां स्नानं महाफलम् ॥ स्नात्वा सन्तर्प्य तु यमान् सर्ब्बपापैः प्रमुच्यते ।” अत्र तिथिकृत्यत्वाद्गौणचान्द्रादरः । तत्रोभय- दिने अरुणोदयसतारकाले मुहूर्त्तान्यूनचतुर्द्दशी- लाभे पूर्ब्बदिने स्नानं यमतर्पणञ्च । एकदिन- मात्रे तल्लाभे तद्दिने । माघस्नानकालाभ्यन्तरे तादृशचतुर्द्दशीलाभे माघप्रातःस्नायिना तन्त्रेण द्वयं कार्य्यम् । तत्र ॐ तत् सदद्य माघे मासि कृष्णे पक्षे रटन्त्यां चतुर्द्दश्यां तिथौ अरुणोदय- वेलायां अमुकगोत्रः श्रीअमुकदेवशर्म्मा यमा- दर्शनकामो गङ्गायां स्नानमहं करिष्ये इति सङ्क्यल्प्य यथाविधि स्नानं प्रागुक्तं चतुर्द्दशयम- तर्पणञ्च कुर्य्यात् ॥ अथ श्रीपञ्चमी । ‘तत्रोभयदिने पूर्ब्बाह्णे पञ्चमीलाभे पूर्ब्बदिने लक्ष्मीसरस्वत्योः पूजनं युग्मात् । एकदिनप्राप्ते तद्दिने । एवं षड्वर्षं शुक्लपञ्चमीव्रतेऽपि । ततश्च ॐ तत् सदित्युच्चार्य्य ॐ मद्येत्यादि लक्ष्मी- प्रीतिकामो लक्ष्मीपूजनमहं करिष्ये इति सङ्कल्प्य शालग्रामे जले वा पूजयेत् । ॐ पाशक्षमालिकाम्भोजशृणिभिर्याम्यसौम्ययोः । पद्मासनस्थां ध्यायेच्च श्रियं त्रैलोक्यमातरम् ॥ गौरवर्णां सुरूपाञ्च सर्व्वालङ्कारभूषिताम् ॥ रौक्मपद्मव्यग्रकरां वरदां दक्षिणेन तु ॥ इत्यनेन ध्यात्वा एतत् पाद्यं ॐ लक्ष्म्यै नमः । इत्यादिना नैवेद्यान्तेन पूजयेत् । ॐ नमस्ते सर्व्वदेवानां वरदासि हरिप्रिये ! । या गतिस्त्वत्प्रपन्नानां सा मे भूयात्त्वदर्च्चनात् ॥ इत्यनेन पुष्पाञ्जलित्रयेण प्रणमेत् ॥ * ॥
ॐ तत् सदित्युच्चार्य्य ओमद्येत्यादि सरस्वतीप्रीतिकामः सरस्वतीपूजनमहं करिष्ये इति सङ्कल्प्य शाल- ग्रामे घटादिस्थजले वा पूजयेत् । “ॐ तरुणशकलमिन्दोर्बिभ्रती शुभ्रकान्तिः कुचभरनमिताङ्गी सन्निषण्णा सिताब्जे । निजकरकमलोद्यल्लेखनीपुस्तकश्रीः सकलविभवसिद्ध्यै पातु वाग्देवता नः ॥” इति ध्यात्वावाह्य एतत् पाद्यं ॐ सरस्वत्यै नमः । इत्यादिना नैवेद्यान्तेन पूजयेत् । ततः “ॐ भद्रकाल्यै नमो नित्यं सरस्वत्यै नमो नभः । वेदवेदाङ्गवेदान्तविद्यास्थानेभ्य एव च स्वाहा ॥” इति ब्रह्मपुराणीयेन पुष्पाञ्जलिना त्रिः पूजयेत् । मत्स्यसूक्ते । सरस्वतीं संपूज्य । “ॐ यथा न देवो भगवान् ब्रह्मा लोकपिता- महः । त्वां परित्यज्य सन्तिष्ठेत्तथा भव वरप्रदा ॥ वेदाः शास्त्राणि सर्व्वाणि नृत्यगीतादिकञ्च यत् । न विहीनं त्वया देवि ! तथा मे सन्तु सिद्धयः ॥ लक्ष्मीर्मेधा धरा पुष्टिर्गौरी तुष्टिः प्रभा धृतिः । एताभिः पाहि तनुभिरष्टाभिर्मां सरस्वति ! ॥” इति मत्स्यपुराणीयैः प्रार्थ्य प्रणमेत् ॥ * ॥
“बन्धुजीवञ्च द्रोणञ्च सरस्वत्यै न दापयेत् । आचारात् पुस्तकञ्च पूजयेत् । ॐ मस्याधाराय नमः । इति मस्याधारं पूजयेत् । ॐ लेखन्यै नमः । इति लेखनीं पूजयेत् ॥ * ॥
अथ माघसप्तमी । तत्रोभयदिने अरुणोदयकाले सप्तमीलाभे पूर्ब्ब- दिने एकदिने तल्लाभे तद्दिने । अरुणोदयकाले सामान्यजले ॐ अद्येत्यादिं सूर्य्यग्रहणकालीन- गङ्गास्नानजन्यफलसमफलप्राप्तिकाम आयुरा- रोग्यसम्पत्कामो वारुणोदयवेलायां स्नानमहं करिष्ये । इति सङ्कल्प्य यथाविधि स्नानेति कर्त्तव्यतां विधाय सप्तवदरपत्राणि सप्तार्क- पत्राणि च शिरसि निधाय । “ॐ यद्यज्जन्मकृतं पापं मया सप्तसु जन्मसु । तन्मे रोकञ्च शोकञ्च माकरी हन्तु सप्तमी ॥” इत्युच्चार्य्य स्नायात् । ततो यथाकालं सप्त- वदरीफलार्कपत्रशालितिलदूर्व्वाक्षतचन्दनयुक्त- जलमादाय ओमद्येत्यादि आयुरारोग्यसम्पत्- कामः श्रीसूर्य्यायार्घ्यमहं ददे । इति सङ्कल्प्य ‘ॐ नमो विवस्वते ब्रह्मन् भास्वते विष्णु तेजसे जगत्सवित्रे शुचये सवित्रे कर्म्मदायिने ॥’ इत्यनन्तरम् । “ॐ जननी सर्व्वभूतानां सप्तमी सप्तसप्तिके । सप्तव्याहृतिके देवि ! नमस्ते रविमण्डले ॥” इति प्रठित्वा इदमर्ध्यं श्रीसूर्य्याय नम इत्यर्घ्यं दत्त्वा । “ॐ सप्तसप्तिवह प्रीत सप्तलोकप्रदीपन । सप्तम्यां हि नमस्तुभ्यं नमोऽनन्ताय वेधसे ॥ इत्यनेन प्रणमेत् । शूद्रेणापि स्नाने तूष्णीं विधा- नात् स्नानमन्त्रं विना अर्घ्यप्रणाममन्त्राः पाठ्याः पौराणिकत्वात् । गङ्गायान्तु बहुशतसूर्य्यग्रहण- कालीनगङ्गास्नानजन्यफलसमफलप्राप्तिकामो गङ्गायां स्नानमहं करिष्ये इति वाक्ये विशेषः । अत्रार्ध्यदानमङ्गं एतत् स्नानादेव माघप्रातः- स्नानं तन्त्रेणैव सिध्यति ॥ * ॥
अथ विधानसप्तमीव्रतम् । प्रथमतो ब्राह्मणान् स्वस्तिवाच्य ॐ सूर्य्यः सोम इत्यादि पठित्वा ताम्रादिपात्रे कुशतिलजला- न्यादाय ॐ तत् सदित्युच्चार्य्य ओमद्य माघे मासि शुक्ले पक्षे सप्तम्यान्तिथावारभ्य प्रति- मासीयशुक्लसप्तम्यां पौषसप्तमीं यावत् आरो- ग्यसम्पत्कामोऽभीष्टतत्तत्फलकामो वा अर्का- ग्रादीतरभोजनविच्छित्तिविधानेन सप्तमीव्रत- महं करिष्ये इति सङ्कल्प्य संयमपारणसहितं तत्तन्मासि तत्तन्नियमं कुर्य्यात् । तत्र माघे अर्काग्रमात्रं भुञ्जीत । फाल्गुने अन्तरीक्ष- गृहीतं कपिलाविड्यवमात्रप्रमाणं तदभावे अन्यगोमयमपीति । चैत्रे मरीचमेकम् । वैशाखे किञ्चिज्जलम् । ज्यैष्ठे अपक्वकदली- फलमध्यकणामात्रम् । आषाढे स्वच्छायद्बिगुण- समये यवप्रमाणं कुशमूलम् । श्रावणे नक्तं काले अल्पहविष्यौदनम् । भाद्रे शुद्धोपवासः । आश्वेने पञ्चमार्द्धयामे मयूराण्डप्रमाणं हवि- ष्यान्नम् । कार्त्तिके अर्द्धप्रसृतिमात्रं कपिला- क्षीरं तदभावे क्षारान्तरम् । मार्गशीर्षे प्राङ्- मुखो वाय्वशनम् । पौषे स्वल्पं घृतम् । तदन- न्तरञ्च । “ब्राह्मणान्भक्षयेत् भक्त्या गुडक्षीरनिरामिषैः । विप्राय दक्षिणा देया विभवस्यानुरूपतः ॥ अष्टम्यां पारणं कुर्य्यात् कट्वम्लरहितेन च । मुद्गमाषतिलादीनि घृतञ्चैव विवर्ज्जयेत् ॥ एकसिद्धं भक्ष्यमुक्तमर्कतन्त्रानुसारतः ॥” चान्द्रमासविशेषोल्लेखवत् अनन्तादिव्रतवत्- मलमासेतरे तत्तु कर्त्तव्यम् ॥ * ॥
अथारोग्यसप्तमी । तत्र पूर्ब्बवत् सप्तम्यान्तिथावारभ्य ऐहिकारोग्य धनधान्यपारलौकिकशुभस्थानप्राप्तिकामः संव- त्सरं यावत् आरोग्यसप्तमीव्रतमहं करिष्ये इति सङ्कल्प्य प्रतिमासशुक्लसप्तम्यां शालग्रामे घटादिस्थजले वा पूजयेत् । रक्ताम्बुजासन- मिति ध्यात्वा एतत् पाद्यं ॐ सूर्य्याय नम इत्यादिभिः संपूज्य । “आदित्य भास्कर रवे भानो सूर्य्य दिवाकर । प्रभाकर नमस्तेऽस्तु रोगादस्मान् प्रमोचय ॥” इति त्रिःपूजयेत् । एवं संवत्सरे पूर्णे दक्षिणां दद्यात् । ब्राह्मणांश्च भोजयेत् । विशेषमासानु- द्देशादमावास्याव्रतवत् मलमासेऽपि कर्त्तव्यम् ॥ अथ भीष्माष्टमी । अष्टम्यां ब्राह्मणः पितृतर्पणं कृत्वा “ॐ वैयाघ्रपद्यगोत्राय साङ्कृतिप्रवराय च । अपुत्त्राय ददाम्येतत् सलिलं भीष्मवर्म्मणे ॥” इति पितृवत् भीष्मं तर्पयेत् ॥ ततः कृता- ञ्जलिः । “भीष्मः शान्तनवो वीरः सत्यवादी जितेन्द्रियः । आभिरद्भिरवाप्नोतु पुत्त्रपौत्त्रोचितां क्रियाम् ॥” इत्यनेन प्रार्थयेत् । क्षत्त्रियादिभिः पितृतर्पणात् पूर्ब्बं एतत् कर्त्तव्यम् ॥ * ॥
भैम्यामेकादश्या- मुपोष्य द्बादश्यां तिलोद्बर्त्तनमावश्यकं कर्त्त- व्यम् । स्नानतर्पणमहादानभोजनादि यथा- लाभं कुर्य्यात् ॥ * ॥
माघपौर्णमास्यां युगाद्या- त्वेन पार्व्वणविधिना श्राद्धं कर्त्तव्यम् । अनन्त- फलकामनया स्नानदानञ्च कर्त्तव्यम् । तस्यां दानप्रमाणन्तु तिथितत्त्वेऽनुसन्धेयम् ॥ इति कृत्यतत्त्वम् ॥ * ॥
* ॥
अथ माघस्नानफलम् । “ब्रतदानैस्तपोभिश्च न तथा प्रीयते हरिः । माघमज्जनमात्रेण यथा प्रीणाति केशवः ॥ न समं विद्यते किञ्चित् तेजः सौरेण तेजसा । तद्बत् स्नानेन माघस्य न समाः क्रतुजाः क्रियाः ॥ प्रीतये वासुदेवस्य सर्व्वपापाद्विमुक्तये । माघस्नानं प्रकुर्व्वीत स्वर्गलाभाय मानवः ॥ किं रक्षितेन देहेन सुपुष्टेन बलीयसा । अध्रुवेणाशु हेयेन माघस्नानं विना भवेत् ॥ मकरस्थे रवौ यो हि न स्नात्यनुदिते रवौ । कथं पापैः प्रसुच्येत कथं स त्रिदिवं व्रजेत् ॥ ब्रह्महा हेमहारी च सुरापो गुरुतल्पगः । माघस्नायी विपापः स्यात्तत्सं सर्गी च पञ्चमः ॥ उपपातकानि सर्व्वाणि पातकानि महान्ति च । भस्मीभवन्ति सर्व्वाणि माघस्नायिनि मानवे ॥ पावका इव दीप्यन्ते माघस्नाता नरोत्तमाः । विमुक्ताः सर्व्वपापेभ्यो मेघेभ्य इव चन्द्रमाः ॥ आर्द्रं शुष्कं लघु स्थूलं वाङ्मनःकर्म्मभिः कृतम् । माघस्नानं दहेत् सर्व्वं पावकः समिधो यथा ॥ प्रामादिकञ्च यत् पापं ज्ञानाज्ञानकृतञ्च यत् । स्नानमात्रेण तन्नश्येत् मकरस्थे दिवाकरे ॥ निष्पापास्त्रिदिवं यान्ति पापिष्ठा यान्ति शुद्ध- ताम् । सन्देहोऽत्र न कर्त्तव्यो माघस्नाने नराधिप ! ॥ सर्व्वेऽधिकारिणो ह्यत्र विष्णुभक्तौ यथा नृप ! । सर्व्वेषां स्वर्गदो माघः सर्व्वेषां पापनाशनः ॥ एतदेव परो मन्त्रो ह्येतदेव परं तपः । प्रायश्चित्तं परञ्चैव माघस्नानमनुत्तमम् ॥ नृणां जन्मान्तराभ्यासात् माघस्नानमतिर्भवेत् । अध्यात्मज्ञानकौशल्यं जन्माभ्यासाद्यथा नृप ! ॥ संसारकर्द्दमालेपप्रक्षालनविशारदम् । पावनं पावनानाञ्च माघस्नानं परन्तप ! ॥ स्नाता माघे च ये राजन् ! सर्व्वकामफलप्रदे । ते तांश्च भुञ्जते लोकांश्चन्द्रसूर्य्यग्रहोपमान् ॥” इति श्रीपद्मपुराणे उत्तरखण्डे ४ अध्यायः ॥