शब्दकल्पद्रुमः
माघवनं || क्ली इन्द्रसम्बन्धि वस्तु । मघवत इद- मित्यर्थे ष्णप्रत्ययेन निष्पन्नम् । इति मुग्धबोध- व्याकरणम् ॥ (मघवन् + अण् । “मघवा बहु- लम् ।” ६ । ४ । १२८ । इति विकल्पान्न- त्रादेशः । त्रि, यथा, माघे । ९ । २५ । “वसुधान्तनिःसृतमिवाहिपतेः पटलं फणामणिसहस्ररुचाम् । स्फुरदंशुजालमथ शीतरुचः ककुभं समस्कुरुत माघवनीम् ॥”)